________________
-
वर्तन्ते' इति जनसमाजे दृढश्रद्धाऽऽसीत् । अतस्ते प्राय: सर्वसङ्घानां श्रेष्ठिआणंदजीकल्याणजीसंस्थायाश्च मुख्यमार्गदर्शकतया प्रसिद्धि प्रापन् ।
तेषां गुरुभक्तिरप्यद्वितीयाऽऽसीत् । स्वदीक्षाप्रभृति सूरिसम्राजां स्वर्गगमनं यावत्तैरखण्डं सूरिसम्राजामाहार-प्रतिलेखना-परिचर्या-विश्रामणादिवैयावृत्त्यं कृतम् । आजीवनं तै: सूरिसम्राड्भ्यो यद् रोचेत तदेव कृतं, तेषामनुशासनमाज्ञाश्च सदैव पालिता:, सूरिसम्राभिर्निजजीवने ये ये आदर्शा: सिद्धान्ताश्चाऽङ्गीकृता आचरिताश्च ते त एवाऽऽदर्शा: सिद्धान्ताश्च तैः सूरिसम्राट्सुजीवत्सु स्वर्गतेषु चाऽपि स्वजीवने एकनिष्ठतया स्वीकृता पालिताश्च । अनयाऽनन्यगुरुभक्त्या ते गुरुभगवतां हृदयेऽवसन् । ' ते धन्या येषां हृदये गुरुभगवतां वास: किन्तु ते धन्यातिधन्या ये गुरूणां हृदये वसन्ति । एतदुक्तिं चरितार्थीकुर्वाणा श्रीविजयनन्दनसूरयः सत्यं धन्यातिधन्या अभवन् । तेषा-मुत्कृष्टां भक्तिं दृष्ट्वा जना अवदन्- “ सूरिसम्राजां द्वे प्रतिच्छाये-श्रीविजयउदयसूरय: श्रीविजयनन्दनसूरयश्च।”
सूरिसम्राभिराहतेषु सर्वेष्वञ्जनशलाका-प्रतिष्ठादिष्वनुष्ठानेष्वन्येषु च कार्येष्वामूलचूलमेतौ द्वौ गुरुशिष्यावेव प्रावर्तेताम् । स्वजीवनस्य प्रतिपलं गुरुभगवतां चरणयोः समर्पयतां तेषां सूरिसम्राजां स्वर्गगमनप्रसङ्गोऽतीवाऽऽघातकार्यासीत्। अतो यदा कदाऽपि तन्नामश्रवणानन्तरमेव तेषां नेत्रे अश्रुभिरपूर्येताम्।
सूरिसम्राट्सु स्वर्गतेषु तज्जीर्णोद्धृतस्य कदम्बगिरितीर्थस्य सर्वाङ्गीणविकासार्थं ते सर्वायासेन प्रयत्नान् कृतवन्तः । तेषां मनसि सततमेषा भावनाऽरंरम्यत यत् - 'सूरिसम्राभिश्चिकीर्षितानि सर्वाण्यपि कार्याणि पारङ्गमयितव्यान्येव।'
सूरिसम्राजां स्वर्गमननान्तरं ते निजकार्येषु सदा तदन्त:प्रेरणयैवाऽवर्तन्त। प्रत्यहं स्वान्तिकमागतान् लोकान् ते सूरिसम्राजां नामोच्चरणपूर्वमेव वासक्षेप-मङ्गलोच्चरण-मुहूर्तदानादि कृतवन्तः । निजगुरुभगवत्सहितैस्तैर्बहुभिः प्रयत्नैःसङ्कलितं सूरिसम्राजां जीवनचरित्रमपि तजन्मशताब्दीवर्षे श्रीशीलचन्द्रविजयमुनिना लेखयित्वा ग्रन्थस्वरूपेण प्रकाशितम्। तेषामनन्यां गुरुभक्तिं गुरुश्रद्धां च तत्स्वशब्देष्वेव पश्याम: - “ जगद्वन्दनीया, जगद्गुरवो, जैनधर्मस्य शासनसम्राजो, वर्तमानसमये युगप्रधानतुल्या:, बाल्यादखण्डब्रह्मचर्येण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org