________________
प्रापत्। ___ पुनरप्यवसरं लब्ध्वा स पलायित: । पित्रा च गृहमानीतः। एवं वारं वारं तत्पलायनेन चकित: पिताऽन्यदा तमपृच्छत् - “भो नरोत्तम! किमिति त्वं वारं वारं पलायसे? किं चिकीर्षसि त्वम् ?” पितुः समक्षं सत्यं भाषितुमक्षमेण तेना तदाऽलीकमेवोक्तं - “ अहं महेसाणानगरस्थपाठशालां गत्वा पिपठिषुरस्मि।” __“अहो! तर्हि किमर्थं पलायितव्यम् ? गच्छ त्वम् । न तत्राऽस्माकं कोऽपि बाधः।” एवं भणित्वा पित्रा ज्येष्ठपुत्रसुखलालेन सह स तत्र प्रेषितः। सुखलालोऽपि तं महेसाणानगरं नीत्वा पाठशालायां निवेशितवान्। प्रतिनिवर्तमानेन तेन रहसि सर्वेऽध्यापका: कर्मचारिणश्च तत्पलायनवृत्तान्तं ज्ञापिता: सावधानीभवितुं च विज्ञप्ताः। __तस्मिन् गते नरोत्तमोऽपि पलायानावसरं मार्गयति स्म । कुतोऽपि तेन ज्ञातं यदधुना सूरिसम्राजोऽहमदाबादनगरे विराजन्ते। अत एकादशे दिने तेनऽहमदाबादे वाडीलालश्रावकोपरि पत्रं लिखित्वा ज्ञापितं यद् अहममुकदिनेऽहमदाबादमागमिष्यामीति। तत: पाठशालास्थाध्यापक श्रीत्रिभुवनदासाय कथितं यद् “अहमहमदाबादं जिगमिषुरतो मे तद्गमनोचितं मूल्यं देहि।" अध्यापकेन त्रीण्याणकानि दत्त्वाऽधिकं निषिद्धम् । मूल्यं तु पादोनाष्टाणकान्यासीत् । नरोत्तमपार्श्वेऽपि त्रीण्याणकान्यासन् । अन्याश्च पत्रप्रेषणोचिता: काश्चित् पत्रिका (स्टेम्प्स) अपि आसन्। ता: कस्मैचिद्दत्त्वा तत: प्रतिशेष धनंलब्धम् । ततस्त्रिभुवनदासात् स्वकीयां वस्त्रादिसामग्री गृहीत्वा स ततो निर्गतः । त्रिभुवनदासेनाऽन्यकर्मचारिभ्योऽस्य गमनवृत्तान्त: कथित: किन्तु तत्सद्भाग्येन न केनाऽपि तत्प्रति लक्ष्यं दत्तम्।
सोऽपि सत्वरमहमदाबादमभिगच्छन्तमग्नियानमारुह्याऽहमदाबादं प्राप्त: । ततो वाडीलालप्रेषितसेवकेन सह पांजरापोळस्थोपाश्रयं गतः । सूरिसम्राजस्तदानीं तत्र विराजन्ते स्म । तान् वन्दित्वा तैः पृष्टेननरोत्तमेन यथातथं स्ववृत्तं निवेदितम् । तच्छ्रुत्वा गुरुभिः प्रधानश्रावकानाहूय तद्वृत्तान्तं ज्ञापयित्वा तदर्थे किंकर्तव्यं पृष्टम् । तैरपि विचिन्त्य कथितं -
" भगवन्! यद्ययं प्रबलभावनावांस्तद्येतस्मायवश्यं दीक्षा देया । पश्चाद् यत्कर्तव्यं तत् करिष्याम:।”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org