________________
-
-
-
एते महात्मानः स्वस्यौदार्यं सर्वोपरित्वं महत्त्वं च सत्यापितवन्तः। एतादृशामनेकसत्कार्यर्दीप्यमानजीवनानां परमगुरुवराणां मुख्यवैशिष्ट्ये त्वेते यत् - ते बाल्यतोब्रह्मचर्यनिष्ठैकमतयः सिद्धवचनाश्चाऽऽसन् । संयम-परिपालनायां शिष्याणां चाऽनुशासने ते दृढा: सन्तोऽपिन कदाऽपि चारित्रचूडामणित्वेन स्वं ख्यापितवन्तः । किन्तु प्राक्कालीनमहापुरुषाणां चरणधूलितुल्यमेव स्वं तेऽमन्यन्त।
कदम्बगिरिसत्कैः ठक्कुरैस्तेषामुपदेशतो व्यसनानि त्यक्तानि । तद्भगवतामेतदुपकारं स्मृत्वा प्रत्यर्पणाय स्वकीया भावना यदा गुरुभगवतामग्रे प्रदर्शिता तदा समयज्ञैर्गुरुभगवद्भिः कदम्बगिरितीर्थोद्धारार्थं पर्वतोपरिस्थां तलहट्टिकायाश्च भूमिं आणंदजीकल्याणजीसंस्थायै विक्रेतुमुपदिष्टा । तदा तै: कथितं - “वयं तु भवद्भिः परिचिता: स्मः। अतो भवद्भय एव भूमिमुपायनीकरिष्यामः । संस्थायै अन्येभ्यो वा विक्रेतुं वयं न सम्मता:।” तदा गुरुभगवन्तोऽकथयन् - " साधूनां न कस्याऽप्युपायनस्वीकार: कल्पते।” तदा पुनस्तेऽजल्पन्- “जगद्गुरुश्रीहीरविजयसूरिभगवद्भयोऽकब्बरेणाऽपि श्रीशत्रुञ्जयतीर्थपट्टकमर्पितमेव । तच्च तैः पूज्यैः स्वीकृतमपि । अत: किं न भवा-नुररीकुरुतेऽस्माकं प्रस्तावम् ? भवद्वत् तेऽपि साधव एवाऽऽसन् ।”
ईदृक्प्रत्युत्तरमाकर्ण्यगुरुभगवन्त आहुः -“पुण्यवन्त:! श्रीहीरविजयसूरिभगवांस्तु जगद्गुरुरासीत् । अहं तु तेषां तुलनायां तुच्छोऽस्मि । तेषां चरणरज इव मे स्थानं वर्तते । तेषामनुकरणंतु नोचितं मम।” __ जगद्गुरुश्रीहीरविजयसूरिभगवतामुदाहरणं पुरस्कृत्य स्वकीयामपि पूजां कारयतां यद्येताक् प्रत्युत्तरेणाऽपि नेत्रोन्मीलनं न भवेत् तदा तेषां मोहविजृम्भितमेव विचारणीयम् । ___ एते महान्त: सूरय: सकलसङ्के शासनसम्राट' इत्यभिधया प्रसिद्धा अभवन् । एतस्मिन्नेव विशेषणे उपर्युक्तसमस्तकथनस्य सार: समाविशति । इति शम्।
(आचार्यश्रीविजयशीलचन्द्रसूरिमहाराज-लिखितलेखानुसारेणानूदितम् ।)
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org