________________
Jain Education International
श्रीअरनाथजिनगीतिः ॥
श्रीअर ! निर्दय इह कस्त्वमिव ? हन्ति निशितबाणैर्मां मदनापसदोऽकरुणमतीव पश्यन्नपि मदुपेक्षां कुरुषे भुवनत्रातः ! किमिव ?. .१
कारितवानपकृत्यश्रेणिं जाल्मोऽयं मम हस्तैः असहायं मां निजदुष्कर्मा-यत्तं त्यजसि कथमिव ?....२
बुद्धि-शक्ति-गुण-धर्मविहीनोऽहं शल्यत्रयविद्धः दण्डत्रिकदण्डितचेताः कः कृतकव्रती स्यादहमिव ?..३
दुर्गुणभरभरितोऽहं कामं तदपि त्वत्पदभक्तः त्वं गुणाब्धिरपि भक्तोपेक्षी श्रेष्ठ आवयोः क इव ?....४ 'जनतारक' इति बिरुदं तव यदि वाञ्छा सत्यापयितुम् मादृशमधमं त्राणशील हे! तारय तर्हि तृणमिव . ..५
१८
For Private & Personal Use Only
www.jainelibrary.org