________________
श्रीकुन्थुनाथजिनगीतिः॥
कर्मपरिपन्थिनं कुन्थुनाथं जिनं विगतवृजिनं मुदाऽहं श्रयामि
चरणपङ्कजयुगं सेवमानोऽनघं दुरितपुञ्ज द्रुतं नाशयामि .........१ सेवना कर्तुमतिदुष्करा यद्यपि स्खलनरहितेति जानामि नाथ! तदपि तत्रोद्यतस्तत्र खलु कारणं तीव्रश्रद्धैव किल भुवननाथ! ........२
कृतपरीक्षोऽहमितरेषु देवेषु वै तर्कगम्यं न तेषां स्वरूपम्
काचवच्चकचकन्मुग्धमेवाऽऽकृषद् दूरतस्त्यक्तनिजशुद्धरूपम्...३ पक्षपातं विना यदि परीक्षे विभो! बुद्धिसाङ्गत्यमङ्गसि तदा त्वम् स्वपरशुद्धात्मरूपप्रकाशनपटु-:व प्रतिभाति को जिन! विना त्वाम्...४
एवमिह तारतम्यं स्फुटं वीक्ष्य हे नाथ! तव चाऽपरेषाममानम्
सेवनां देव! नाऽहं प्रकुर्वे कथं सन्दधानस्त्वयि श्रद्दधानम्........५ सेवनापद्धतिर्विगलिताहंमतिर्विहितशरणागतिर्वसति चित्ते यदि तदा शुद्धशीलं समनुभूय हे! स्थानमहमाप्नुयां देव हृदि ते.......६
.१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org