________________
(३)
यत् चतुर्मासकसंबंधिपूर्णिमावृद्धौ त्वं त्रयोदशीवृद्धिं कुरुषे शेषपूर्णिमासु च प्रतिपद इत कुत्र शिक्षितोऽसि ?, यतः सर्वा अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एव इति, यदुक्तं श्रीश्राद्धदिनकृत्ये 'छण्हं तिहीण ममि का तिही अज वासरे' इत्यादि, ताः सर्वा अपि तिथय आराध्या एवेति, अथ च 'चाउद्दसअट्ठमुद्दिदुपुण्णिमासिणीसु पडिपुन्नं' इत्यस्य व्याख्या। चतुर्दश्यष्टम्यौ प्रतीते उदिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासक तिथिषु इत्यर्थः इति सूत्रकृ तांगद्वितीय श्रुतस्कन्ध सूत्रवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरुपम्, शतवारपंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्ठिवत्। न तु विधिवादरुपं, तल्लक्षणं पुनरेकेन केनचिद् यत् क्रियानुष्ठानमाचरितं स चरितानुवादः, सर्वैरपि यत् क्रियानुष्ठानं क्रियते स विधिवादः, विधिवादस्तु सर्वैरपि स्वीकर्तव्य एव, न तु चरितानुवाद इत्यर्थतः सेनप्रश्ने कथितमस्ति, तस्मात् त्यज कदाग्रहं, कुरु पूर्णिमाभिवृद्धौ द्वे त्रयोदश्यौ, अन्यथा गुरुलोपी ठको भविष्यसि इति दिक्। तथा श्राद्धविधावपि तिथिस्वरूपं यत् प्रतिपादितमस्ति तदपि त्वं सावधानीभूय शृणु-तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि-चाउम्मासियवरिसे पक्खियपंचट्ठमीसु नायव्वा। ताओ तिहीओजासिं उदेइ सूरो न अन्नाओ ॥१॥ पूआ पच्चक्खाणं पडिकमणं तह य नियमगहणं च। जीए उदेइ सूरो तीइ तिहीए उ कायव्वं ॥२॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए. आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥३॥पारासरस्मृतावपि-आदित्योदयवेलायां,