________________
(२)
-
समग्रदिनेऽपीति सुष्ठु आराधनं भवति इति प्रश्नः, अत्रोच्यते क्षये पूर्वा तिथिर्ग्राह्या, वृद्धौ ज्ञेया तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्यं लोकानुगैरिह ॥१ ॥ तथा - उदयंमि जा तिही सा पमाणं इत्यादि श्रीउमास्वातिवाचक (प्रभृति) वचनप्रामाण्यात् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति अनेनेदमुक्तं - यासूर्योद्गमवेलायां तिथि: सैव मान्याः ना परेति । तथा हीरप्रश्नचतुर्थोल्लासे त्रुटिततिथिमाश्रित्य प्रश्न एवं कृतोऽस्ति, तथाहि यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ 'क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति, अत्रोत्तरं यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तप पूर्वस्यां तिथौ क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशी चतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्तीति । अत्र विजयानंदसूरिगच्छीयाः प्रतिपद्यपीति अपिशब्दं गृहीत्वा पूर्णिमाभिवृद्धौ प्रतिपदवृद्धिं कुर्वन्ति तन्मतमपास्तं यतः पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते, न तु प्रतिपदः यतष्टिप्पनकादौ चतुर्दश्या पूर्णिमासंक्रमो दृश्यते, न तु प्रतिपदि, ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः द्वे चतुर्दश्यौ कथं न क्रियेते ?, 'तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि शृणु तत्र उत्तरंजैनटिप्पणके तावत् (पर्व) - तिथीनां वृद्धिरेव न भवति, ततः परमार्थतः त्रयोदश्येव वर्धिता, न तु प्रतिपदवृद्धिर्भवति लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्त्वात् तस्मात् सिद्धं चैतत् पूर्णिमावृद्धौ त्रयोदशीवर्द्धन, चेदेवं तव न रोचते तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज । अथ एवमपि ते न रोचते तर्हि प्रष्टव्योऽसि १ आनन्दसूरीया पूर्णिमामावास्यावृद्धौ प्रतिपदं ववृधिरे, न तु सांप्रतीनोत्थापकवत् पर्वापर्वतिथ्योमिश्रतां पर्वद्वयमिश्रतां पर्वतिथेर्वृद्धिं च चक्रुः