SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ આજના અંકનો વધારો श्रीविजयदेवीयानां पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या ___एव वृद्धिर्भवतीति मतपत्रकम् ॥ श्रीतिथिहानिवृद्धिविचारः ॥ अथ तिथिवृद्धिहानिप्रश्नोत्तरं लिख्यते। इन्द्रवृन्दनतं नत्वा, सर्वज्ञ सर्वदर्शिनम्। ज्ञातारं विश्वतत्त्वानां, वक्ष्ये शास्त्रानुसारतः ॥१॥कस्यास्तिथेः क्षये जाते, का तिथि: प्रतिपाल्यते ?। वृद्धौ सत्यां च का कार्या, तत्सर्वं कथ्यते मया ॥२॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते-आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना प्रभूताऽपि नोच्यते, उक्तं च श्रीसेनप्रश्रप्रथमोल्लासे-'उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए। आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥१॥ इति, तस्मादौदयिक्येव तिथिराराध्या, नपरेति॥तथा-पूर्णिमामावास्ययोवृद्धौ पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवह्रियमाणा आसीत्, केनचिदुक्तं श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयन्ति तत् किमिति ?, अत्र उत्तरं, पूर्णिमामावास्ययोवृद्धो औदयिक्येव तिथिराराध्यत्वेन विज्ञेया इति हीरप्रश्नद्वितीयप्रकाशे प्रोक्तमस्ति तस्मादौदयिक्येव तिथिरंगीकार्या, नान्येति तथा सेनप्रश्नतृतीयोल्लासेऽपि प्रोक्तमस्ति, यथाष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति तावत्या एव आराधनं भवति। तदुपरि नवम्यादीनां भवनात्, संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात्, अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा पूर्वदिने द्वितयमप्यस्ति प्रत्याख्यानवेलायां
SR No.520955
Book TitleSiddhachakra Varsh 05 - Pakshik From 1936 to 1937
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages740
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy