________________
विधिवादस्तु नित्यः कर्त्तव्य इति रहस्यं । तस्मात पूर्णिमाऽमावास्योः क्षये त्रयोदश्या एव क्षयः कार्य इति वृद्धसामाचार्यां । यदुक्तम्-क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा । श्री वीरज्ञाननिर्वाणं, कार्यं लोकानुगैरिह ॥१॥'जम्हा पुन्निमाखए तेरसीखओ हवइ तम्हा पुन्निमावुड्ढीएवि तेरसी वुड्ढीजा इइ वयणं पुव्वसूरिहिं भणियं' इति वचनात् । तथा च जइ पन्चतिहिखओ तया कायव्वो पुव्वतिहीए, एवं आगमवयणं कहियं तेलुक्कनाहेहिं॥२॥ चउमासीमवरिसे वुड्ढी भवेजा पव्वतिहीए ठावियाणं पुव्वदिणे मिल्लिया दोऽविय तत्थ दिणे ॥३॥ तथा। अट्टमी चउद्दसी पुन्निमा उट्टिा य पव्वतिही, एसु खओ न हविजइ इह वयणाओ इति वचनात्, आयरियावि एवमेव भन्नंति, तंजहा-आसाढे कत्तियफग्गुणमासे खओ पुन्निमाए होइ, ता संखओ तेरसीए भणिओ जिणवरिदेहिं॥१॥तथा द्वितीयां पंचम्यष्टम्येकादशीचतुर्दशीषु यदि क्षयो भवेत्तदा तत्त्पूर्वायस्तिथः कार्यः, यदुक्तं-बीयापञ्चमी अट्ठमी एकारसी च चउद्दसी तासं खओ पुव्वतिहीओ, अमावासाएवि तेरसि, अमावास्यापूर्णमास्योः क्षये क्षयस्तु त्रयोदश्या एव। एवमेव भाद्रपदशुल्लपंचम्याः क्षये तृतीयायाः क्षयो बोध्यः । कस्मादेवं यत् भाद्रपदशुक्लपंचमीक्षये तृतीयायाः क्षयः क्रियते इति पृच्छसि तदुत्तरमेवं, चतुर्थी पर्वतिथित्वेन तस्याः क्षयाभावात् चिरंतनाऽऽचार्यैराह्तत्वात्, अत एवाधुनाप्येवमेवास्माभिः क्रियते। यदमास्यायाः क्षये प्रतिपदः क्षयः करोति तन्मतमपास्तं यदुक्तं अमावासाएवि तेरसी, न तु पडवस्स इति, सत्यमेव, पुनः शिष्यो गुरूं पृच्छति-अथ पूर्णिमावृद्धौ युष्माभिः द्वे त्रयोदश्यौ कथं क्रियेते ? तस्योत्तरं-द्वे चतुर्दश्यौ केनापि सूरिणा न कृते, नाऽपि कारिते, अत एव पूर्णिमावृद्धौ द्वे त्रयोदश्यौ अस्माभिः क्रियेते, कथं तृतीयस्थाने स्थिता त्रयोदशी वर्द्धिता पूर्वसूरिणेति, जैनटिप्पनेके तावत् पर्वतिथिनां वृद्धिरेव न भवति. ततः परमार्तस्त्रयोदश्येव वर्द्धिता तत्सत्यं, परं तत्कारणं कथ्यतां कारणं तु चतुर्दश्याः वृद्धिः कदापि न भवति तदेकं कारणं पूर्वोक्त तहा पुन्निमावुड्ढीए तेरसीवुड्ढी जायइइञ्चाइ, एवमपि तव न रोचते तदा वर्द्धितपूर्णिमास्याः घटिकायाः चतुर्दश्यां निक्षेपः कार्यः, साऽपि द्विगुणिता जाता, साप्यैकेव क्रियते,न तु द्वे, अत: आद्या चतुर्दशीघटिका त्रयोदश्यां निक्षिप्ता, स्थापितेत्यर्थः अत एव पूर्वसुरिभिस्त्रयोदशी वर्द्धिता सा च अपर्वरूपेण गणिता, द्वितीया तु पर्वरुपैव गणिता, तस्मिन्नेव दिवसे पाक्षिकप्रतिक्रमणादितपः कुर्वन्ति मुनिसत्तमाः तदनंतरं पूर्णिमा, यदि च कल्याणकवासरः पर्वतिथि एकत्राऽऽयाति तदा किं कुर्वन्ति ते ? तत् मे कथयतां, सत्यं, परमं चतुर्थदिनं यावदपि तपः पूर्त्तिः कार्यते, पश्चाद्यथाशक्तिः, शेषं तु क्षयतिथिवद्ज्ञातव्यमिति, एवं भाद्रपदशुक्लपंचम्यां वर्द्धितायामपि वर्धितपूर्णिमावदवसेयमिति, एवमेव सत्यं, गतशंकोऽहंजातस्तिथ्यधिकारे इत धर्माधिकारे इति तपःकरणनिश्चये परस्योपदेशः स्वस्य कणं च सुनिश्चितं कथितम्॥