________________
(७)
सांवत्सरिकचातुर्मासिकस्तपः
पूर्णमास्यर्धमासीअष्टमीनाणपंचमीएकादसीद्वितीयाकल्याणकतपः प्रभृतिषु यत् तस्मिन् वर्षे मासे तिथौ चैव करोति, नान्यथा, जैनागाभिप्रायेण तु एकाऽपि पर्वतिथिः क्षीयते वर्धते न च । लौकिकटिप्पनाभिप्रायेण तु त्रुटिता क्षीणा पतिता, वर्द्धिताऽधिकाऽपि भवति तदा किं कार्यमिति शिष्यो गुरुं प्रति पप्रच्छ, गुरुस्तं प्रत्याह-प ह - पर्युषणायां भाद्रशुक्कपंचम्याः क्षयो वृद्धिश्च टिप्पनानुसारेण यदि भवेत् तदा यथा पूर्णिमास्याः क्षये त्रयोदश्या एव गीतार्थेः क्षयः क्रियते । यदाहु:. आसाढकत्तियफग्गुणमासे खओ पुनिमा होइ ता संखओ तेरसि भणिओ जिणवरिंदेहिं ॥१॥ एवमेव न्यायने भाद्रपदशुक्लपंचम्याः क्षये तृतीयायाः क्षयः क्रियते, पुनरपि स एव शिष्यो गुरुं पृच्छतिको हेतुत्र यत्पूर्णमास्याः क्षये त्रयोदश्याः क्षयो गीतार्थैः क्रियते ?, गुरस्तं प्रत्याह- अत्र विद्यौ त्वं सावधानीभूय शृणु-चतुर्दश्याः पर्वतिथित्वेन क्षयः न क्रियते, अत एव अपर्वरूपायास्त्रयोदश्याः क्षयो . युक्तियुक्त इति । पुनरपि पृच्छति - पूर्णिमातस्तृतीयस्थानवर्त्तिनी त्रयोदशी कथं क्षीयते ? तत्रापि श्रृणु कारणं - पूर्णिमाया: क्षय एव न भवति, तदंतर्गताया घटिकायाः सर्वथाऽभावो लौकिकटिप्पनके द्दश्यते, तत्सत्यं, पुर्णिमांयां चतुर्दश्या घटिका कालमपेक्ष्य स्थापितेत्यर्थः, ततो जाता चतुर्दशी रिक्ता, तस्याः क्षयः केनाऽपि पूर्वधरेण न कृत इति श्रूयते पर्वतिथित्वेनेति, उक्तं च सिद्धांतसागरे - अट्ठामीचाउद्दसीपुन्निमा उद्दिठ्ठा य पव्वतिहीएसु खओ न हविज्जइ, एत्थ यकरण्डे (यगारठाणे) चकारो भाणियव्वो, अतो पज्जोसवणाइ पव्वतिहिएसु एवमेव भाणियव्वं इति, अतः कारणात् अपर्वरूपायाः त्रयोदश्याः घटिका अपसार्या अपसार्य च चतुर्दशी पूर्यते, अतः कारणात् अपर्वरूपायाः त्रयोदश्याः घटिका अपसार्या, अपसार्य च चतुर्दशी पूर्यते, अत एव तस्याः पूर्णिमायाः क्षये त्रयोदश्याः क्षयो युक्तियुक्तः क्रियते, एतदुक्तं श्राद्धविद्धौ श्राद्धेन पर्वदिवसाः सर्वे विशेषेण पालनीयाः पर्वाणि चैममूचुः - अठ्ठमी चउदसी य पुन्नमा य तह अमावसा हवइ पव्वं । मासम्मि पव्वछकं तिन्नि अ पव्वाइं पक्खम्मि ॥ १ ॥ तथा । बीया पंचमी अठ्ठमी एक्कारसी चउद्दसी य पण तिहीओ । एआ सुअतिहीओ गोयमगणहारिणा भणिआ ॥२॥ बीया दुविहे धम्मे पंचमी नाणेसु अठ्ठणी कम्मे । एगारसी अंगाणं चउद्दसी चउदपुव्वाणं ॥ ३ ॥ अत एव सदाऽपि अमावास्यपूर्णिमादिपर्वतिथयः पर्वतिथि त्वेना राध्या एव । तथा च श्री श्राद्धदिनकृत्ये ० ॥ अथ च - चउद्दसट्टमुद्दिढ पुन्नमासिणीसु णं पडिपुन्नं इत्यस्य व्याख्या - चतुर्दश्यष्टम्यौ प्रतीते उदिष्टासु महाकल्याणकसंबन्दितया पुण्यतिथित्वेन प्रख्यातासु तथा पूर्णमासीषु च तिसृषु, चतुर्मासिकेष्वपीत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवावदरूपं, पंचम श्रावकप्रतिमावाहककार्त्तिकश्रेष्ठिवत्, न तु विधिवादरूपं, लक्षणं चेदं पुनरेकेन केनचित् यत् क्रियानुष्ठानमाचरितं तच्चरितानुवादः, सर्वैरपि यत् क्रियानुष्ठानं क्रियते स विधिवादः विधिवादस्तु सर्वैरप्येकेनैव रूपेणाङ्गीकृतः, स एव प्रमाणं, न तु चरितानुवाद इति । सतु कारणिको, न तु नित्यो,