________________
एवं पंचपर्वी पूर्णिमामावासाभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टा स्यात्, तथा च गाथाः पूर्वसूरिभिः प्रणीता "आसाढकत्तियफग्गुणमासे खओ पुन्निमा (इ जइ) होइ । ता संखओ तेरसीए भणिओ उ जिणवरिंदेहिं ॥ १॥ बीया पंचमी अठुमी एक्कारसी चउद्दसी य तासि । खओ पुव्वतिहीओ (णं) अमावासाएऽवि तेरसीए ॥२॥ पक्खस्स अद्धं अट्ठमी मासं अद्धाओ पक्खिअं होइ । (तेरसमे सोलसमे दिवसे न हुंति पक्खियं कयावि) ॥३॥आसाढबहुलपक्खे भद्दवये कत्तिए य पोसे य । फग्गुण वइसाहेसु य नायव्वा ओमरत्ताओ ॥ ४॥ चउमासी वरिसे वुढी भवे जा (सा) पव्वतिहीए ठावियाणं पुव्वदिणे मिलिया दोऽविय तत्थ दिणे॥ पुव्वाए तिहीयाए ठाविऊण जहाकम्मेणं पच्छा आराहणीया सूरुदयवेलासंपत्ते॥ पन्नरसंमि य दिवसे कायव्वं पक्खियं तु पाएणं । चउदसी सहियं कयाइवि न हु तेरस सोलसे दिवसे ॥ ८॥ अट्ठमीतिहीइ सहिआ कायव्वा अट्ठणी उ पायेणं । अहवा सत्तमिनेयं नवमे छठे न कायव्वा ॥ ९॥ पक्खियपडिक्कमणाओ सट्ठियपहरम्मि अट्ठमी होइ । तत्थेव पच्चरवाणं करेंति पव्वेसु जिंणवयणा ॥१०॥ जइया उ अट्ठमी लग्गा तिहिआओ हुंति पव्वसंधीसु । संधिपुरम्मि य नेया करंति पक्खियपडिक्कमणं ॥११॥ अत्थि (य) तम्मि य गन्धो तव्वसेण सा उण जायइ, एवं पुव्वसूरिहिं भणिअं एत्थ न संदेहो ॥१२॥ पक्खंते तह मासंते जा भवे पुन्निमा वुड्ढी । तो तेरसीए भणिओ करिज जिण (चंद) आणाए ॥ १३॥
इत्यादिगाथाकदम्बकैरपि पूर्णिमामावास्योः क्षये क्षयस्त्रयोदश्या भवतीति तव चेतसि चेद् विचारो नायांतस्तथापि श्रृणु, क्षये पूर्वा तिथिः कार्या इति पर्वतिथेः क्षये पूर्वा याऽपर्वतिथिस्तस्या एव क्षयः कार्यः, यदि पूर्णिमामावास्ययोः क्षयो भवति तदाऽनया रीत्या त्रयोदश्याः क्षयः कार्य: सा चैवं-पूर्णमास्यादिक्षये चतुर्दश्या घटिका अपसार्या, तदा च चतुर्दशी हीना जाता, सापि पर्वतिथित्वेन तस्याश्चतुर्दश्या क्षयो न भवत्येव, अतस्तस्यां त्रयोदश्या घटिका संयोज्या, जाता त्रयोदशीरिक्ता, सा त्वपर्वतिथिः, तस्या एव क्षयः कार्य इति, इत्येवं वृद्धावप्यवसेयं, तथाहि. यदा वर्द्धितपूर्णमास्या घटिका चतुर्दश्यां निक्षिप्ता तदा चतुर्दशी वर्द्धिता, सा द्वित्त्वं नेच्छति, साऽप्येकैव क्रियते, अत एव वर्द्धितचतुर्दश्या घटिका त्रयोदश्यां प्रक्षिप्ता, जाता त्रयोदश्या वृद्धिः, साऽपर्वत्वेन द्वे त्रयोदश्यौ कियेते गीताथैः, यदुक्तं सिद्धांतसागरे जम्हा पुन्निमाखए तेरसीखओ तम्हा पुन्निमावुड्ढीएवि जायइ इइ वयणं पूव्वसूरीहिं भणियं॥ इति सामाचार्यां, तथा च ॥ अट्ठमी चाउद्दसी पुण्णिमा उद्दिट्ट इइ पव्वतिही, तासु खओ न हवइ, इइ वयणाओ इति वचनात् आयरियावि एवमेव भणंति तंजहा. 'आसढकत्तियफग्गुणमासेखओ पुन्निमा होई। तासं खओ तेरसी (ए इइ) भणिओ जिणवरिंदेहिं ॥१॥ एवं सर्वपूर्णिमामावास्यास्वपि त्रयोदश्या एव क्षयः कार्यइति । द्वितीयापंचम्यष्टम्येकादशीषु पर्वतिथिषु चतुर्दश्याः क्षयस्तत्पूर्वदिने कार्य इति, एवं भाद्रपदशुफ्लपंचम्याः क्षय तृतीयायाः क्षयः वृद्धौ चापि तृतीयाया एव वृद्धिःकार्या,