________________
-al. 3-१०-33
શ્રી સિદ્ધચક્ર ___४ सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं ।। आ. प. ३०१
५. से बेमि जे य अईया जे य पडुपन्ना जे य आगमेस्सा अरहंता भगवंतो जे य पव्बयन्ति जे अ पव्वइस्सन्ति सव्वे ते सोवहीधम्मो देसिअव्वोसिकट्ट तित्थयरधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्बइंसुवा पव्येयंति वा पव्वइस्सन्ति वेति । अपि च-गरियस्त्वात् सचलेस्य, धर्मस्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥१॥ इत्यादि ॥ आ. प. ३०१
६ एष चर्याविधिरनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः माहणेणत्ति-श्रीवर्धमानस्वामिना मतिमताविदितवेद्येन बहुरा:-अनेकप्रकारमप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, एवम्-अनेन यथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो रीयन्ते-गच्छन्तीति
७ एषः अनन्तरोक्तः शस्त्रपरिज्ञादेरारम्य योऽभिहितः सोऽनुक्रान्तः-अनुष्ठितः आसेवनापरिज्ञया सेवितः, केन ? श्रीवर्धमानस्वामिना मतिमता-ज्ञानचतुष्टयान्वितेन बहुराः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवताऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयतेपराक्रमते ॥ आ. पा. ३१५
८ उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिच्चाई होइ चरित्त इहं पगयं ॥१॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्तव्यः, गृहीतस्य च प्रतिपालनं कर्तव्यमिति, उक्तमपितित्थयरो चउनाणी सुरमहिओ सिज्झि अव्ययधुम्मिव अणिगूहिअबलविरिओ सव्वत्थामेसु उज्जमइ ।१। किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहि । होई न उज्जमिअव्वं ? सपच्चवायंमिमाणुस्से ॥२॥. इत्येव तपसि भावना विधेया ॥ आ. पा. ४२०
९ भगवता किल श्रीवर्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाह्दो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे तथा अचित्ततिलशकटस्थण्डिलपरि भोगानुज्ञा चानवस्थादोष संरक्षणाय भगवता न कृतेति ॥
१० सुप्रज्ञज्ञप्ति सुष्टु प्रज्ञप्ता यथैवाख्याता तथैव सुष्ठ सूक्ष्मपरिहारासेवनेन प्रकर्षे ण सम्यणासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञविरासेवनार्थः
११ सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रादिभिः सत्पुरुषैः प्रहतः तं प्रति पह्याः वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविस्त्रंभो विनेयः संयमाष्ठाने सुखनैव प्रवर्तयिष्यते ॥ आ. पा. ४३ ___ १२ तमप्कायलोकं चशद्वादन्यांश्च पदार्थान् आज्ञया मौनीन्दवचने नाभिमुख्येन सम्यगित्वा ज्ञात्वा ।। आ. पा. ४३ ___ १३ विनोपकरणं यस्तु, जीवादीस्त्रातुमीश्वरः । जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ॥१॥ उत्तराध्ययन पा. १३४
. १४ ततोयूयमपि यथा भगवान् संसारं जितवान् तथैव यत्नं विधत्त ।। सुगडांग चोपडो पा. ३०३