________________
सागरमल जैन,
SAMBODHI
श्रीसर्वज्ञ-मुखोत्पन्ना, भारती बहुभाषिणी । अज्ञानतिमिरं हन्ति, विद्या-बहुविकासिनी ॥ १० ॥ सरस्वती मया दृष्टा, दिव्या कमललोचना । हंसस्कन्ध-समारूढा, वीणा-पुस्तक-धारिणी ॥ ११ प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदादेवी, चतुर्थं हंसगामिनी ॥ १२ ॥ पंचमं विदुषां माता, षष्ठं वागीश्वरी तथा । कुमारी सप्तमं प्रोक्ता, अष्टमं ब्रह्मचारिणी ॥ १३ ॥ नवमं च जगन्माता, दशमं ब्राह्मिणी तथा । एकादशं तु ब्रह्माणी द्वादशं वरदा भवेत् ॥ १४ ॥ वाणी त्रयोदशं नाम, भाषा चैव चतुर्दशं । पंचदशं श्रुतदेवी च, षोडशं गौर्निगद्यते ॥ १५ ॥ एतानि श्रुतनामानि, प्रातरुत्थाय यः पठेत् । तस्य संतुष्यति माता, शारदा वरदा भवेत् ॥ १६ ॥ सरस्वति ! नमस्तुभ्यं, वरदे ! कामरूपिणि ! । विद्यारंभं करिष्यामि, सिद्धिर्भवतु मे सदा ॥ १७ ॥
000