________________
Vol. XXXIII, 2010
जैनधर्म और श्रुतदेवी सरस्वती
85
देवा-सुरेन्द्र-नतमौलिमणि-प्ररोचि, श्री मंजरी-निबिड-रंजित-पादपद्म ! नीलालके ! प्रमदहस्ति-समानयाने ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ २ ॥ केयूरहार-मणिकुण्डल-मुद्रिकाद्यैः सर्वाङ् गभूषण-नरेन्द्र-मुनीन्द्र-वंद्ये ! नानासुरन-वर-निर्मल-मौलियुक्ते ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ ३ ॥ मंजीरकोत्कनककंकणकिंकणीनां, कांच्याश्च झंकृत-रवेण विराजमाने ! सद्धर्म--वारिनिधि-संतति-वर्द्धमाने ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ ४ ॥ कंकेलिपल्लव-विनिंदित-पाणियुग्मे ! पद्मासने दिवस-पद्मसमान-वक्त्रे ! जैनेन्द्र-वक्त्र-भवदिव्य-समस्त-भाषे ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ ५ ॥ अर्द्धन्दु-मण्डितजटा-ललित-स्वरूपे ! शास्त्र-प्रकाशिनि-समस्त-कलाधिनाथे ! चिन्मुद्रिका-जपसराभय-पुस्तकाङ् के ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ ६ ॥ डिंडीरपिंड-हिमशंखसिताभ्रहारे ! पूर्णेन्दु-बिम्बरुचि-शोभित-दिव्यगात्रे ! चांचल्यमान-मृगशावललाट-नेत्रे ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ ७ ॥ पूज्ये पवित्रकरणोन्नत-कामरूपे । नित्यं फणीन्द्र-गरुडाधिप-किन्नरेन्द्रैः । विद्याधरेन्द्र-सुरयक्ष-समस्त-वृन्दैः, वागीश्वरि ! प्रतिदिनं मम रक्ष देवि ! ॥ ८ ॥ सरस्वत्याः प्रसादेन, काव्यं कुर्वन्ति मानवाः । तस्मान्निश्चल-भावेन, पूजनीया सरस्वती ॥ ९ ॥