________________
Vol. XXXIII, 2010
जैनधर्म और श्रुतदेवी सरस्वती
श्वेताम्बरां चतुर्भुजां सरोजविष्टरस्थिताम् । सरस्वती वरप्रदामहर्निशं नमाम्यहम् ॥ १८ ॥ साङ्ख्यभौतिकचार्वाकमीमांसकदिगम्बराः । सागतास्तेऽपि देवि ! त्वां ध्यायन्ति ज्ञानहेतवे ॥ १९ ॥ भानूदये तिमिरमेति यथा विनाशं क्ष्वेडं विनश्यति यथा गरुडागमेन । तद्वत् समस्तदुरितं चिरसञ्चितं मे देवि । त्वदीयमुखदर्पणदर्शनेन ॥ २० ॥ गमकत्वं कवित्वं च वाग्मित्वं वादिता तथा ।
भारति ! त्वत्प्रसादेन जायते भुवने नृणाम् ॥ २१ ॥ इस इक्कीसवें श्लोक के पश्चात् प्रस्तुत सरस्वती मन्त्रकल्प में सरस्वती उपासना सम्बन्धी मन्त्र एवं उनके विधि विधानों की चर्चा की गयी है । विस्तारभय से हम यहां उन्हें नहीं दे पा रहे हैं, इच्छुक पाठक 'भैरवपद्मावतीकल्प' से उन्हें देख सकते हैं ।
पठितसिद्धसारस्वतस्तवः ।
-साध्वी शिवार्या व्याप्तानन्तसमस्तलोकिनकरैङ्कारा समस्ता स्थिरा, याराध्या गुरुभिर्गुरोरपि गुरुदेवैस्तु या वन्द्यते । देवानामपि देवता विंतरतात् वाग्देवता देवता स्वाहान्तः क्षिप ऊँ यतः स्तवमुखं यस्या: स मन्त्रो वरः ॥ १ ॥ ॐ हीं श्रीप्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हि या सैं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथाहिता । श्रीं क्लीं ब्लौं चरमा गणानपरमा जायेत यस्या रमा विद्यैषा वषडिन्द्रगी:पतिकरी वाणी स्तुवे तामहम् ॥ २ ॥ ॐ कर्णे ! वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी हीस्वाहान्तपदां समविपदां छेत्री पदं सम्पदाम् । संसारार्णवतारिणी विजयते विद्यावदाते शुभे यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥ ३ ॥ सर्वचारविचारणी प्रतिरणी नौर्वागूभवाब्धौ नृणां वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्रावणी । सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं शेते यस्तरणी रणीषु निपुणा जैनी पुनातु ध्रुवम् ॥ ४ ॥