________________
82
सागरमल जैन
SAMBODHI
ऊँ वद वद वाग्वादिनी हूं शिखायै नम : । ॐ वद वद वाग्वादिनी हाँ कवचाय नमः। ॐ वद वद वाग्वादिनी हः अस्त्राय नमः । इति सकलीकरणं विधातव्यम्। रेफैर्व्वलद्भिरात्मानं दग्धमग्निपुरस्थितम् ।ध्यायेदमृतमन्त्रेण कृतस्नानस्ततः सुधीः ।।८।। ॐ अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतं श्रावय श्रावय सं ह्रीं ह्रीं क्लीं क्ली ब्लू ब्लूं द्रां द्रां द्रीं द्रीं दूं दूं द्रावय द्रावय स्वाहा । स्नानमन्त्रः । विनयमहा । ॐ हीं पद्मशयसे योगपीठाय: नमः । पीठस्थापनमन्त्रः । पट्टकेऽष्टदलाम्भोजं श्रीखण्डेन सुगन्धिना । जातिकास्वर्णलेखिन्या दूर्वादर्भेण वा लिखेत् ॥ ९ ॥ ॐकारपूर्वाणि नमोऽन्तगानि शरीरविन्यासकृताक्षराणि । प्रत्येकतोऽष्टौ च यथाक्रमेण यानि तान्यष्टसुपत्रकेषु ॥१०॥ ब्रह्महोमनमः शब्दं मध्येकर्णिकमालिखेत् । कं कः प्रभृतिभिर्वणैर्वेष्टयेत् तन्निरन्तरम् ॥ ११ ॥
कं कः चं चः, टं टः, तं तः, यं यः, रं रः, लं लः, वं वः, शं शः, षं षः, सं सः, हं हः, लं लः, क्षं क्षः, खं खः, छं छ:, ठं ठः, थं थः, फं फ:, गं गः, जं जः, डं डः, दं दः, बं बः, घं घः, झं झः, ढं ढः, धं धः, भं भः, ऊँ ङ :, जं जः, णं णः, नं नः, मं मः, एतानि केसराक्षराणि ।
बाह्ये त्रिर्मायया वेष्ट्य कुम्भकेनाम्बुजोपरि । प्रतिष्ठापनमन्त्रेण स्थापयेत् तां सरस्वतीम् ॥ १२ ॥ ॐ अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि ! ज्वलदीधिति ! स्वाहा प्रतिष्ठापनमन्त्रः ॥
अर्चयेत् परया भकत्त्या गन्धपुष्पाक्षतादिभिः । विनयादिनमोऽन्तेन मन्त्रेण श्रीसरस्वतीम् ॥ १३ ॥ ॐ सरस्वत्यै नमः । विनयं मायाहरिवल्लभाक्षरं तत्पुरो वदद्वितयम् । वाग्वादिनी च होमं वागीशा मूलमन्त्रोऽयम् ॥ १४ ॥ ॐ हीं श्रीं वद वद वाग्वादिनी स्वाहा । मूलमन्त्रः । यो जपेज्जातिकापुष्पैर्भानुसङ् ख्यासहस्त्रकैः । दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ॥ १५ ॥ महिषाक्षगुग्गुलेन प्रतिनिर्मितचणकमानसद्गुटिकाः होमस्त्रिमधुरयुक्तैर्वरदाऽत्र सरस्वती भवति ॥ १६ ॥ देहशिरोदृग्नासासर्वमुखाननसुकण्ठहन्नाभि । पादेषु मूलमन्त्रबीजद्वजितं ध्यायेत् ॥ १७ ॥