________________
Vol. XXXIII, 2010
जैनधर्म और श्रुतदेवी सरस्वती
81
रोहिण्यै नमः १, ऊँ प्रज्ञप्त्यै नमः २, इत्यादिषोडशदेवीनामानि लेख्यानि, तबहिः पुनरष्टदलानि, पूर्वदले ॐ ही इन्द्राय नमः १, क्रमेण ॐ हीं
अग्नये नमः २, ॐ ही यमाय नमः ३, ऊँ ही नैर्ऋतये नमः ४, ॐ ही वरुणाय नमः ५, ऊँ ही वायवे नमः ६, ऊँ ही कुवेराय नमः ७, ॐ हीं ईशानाय नमः ८, इति लिखेत् । ततो मायया विरभिवेष्ट्यकाकारेण निरुध्य परितः पृथ्वीमण्डलं कोणेषु प्रत्येकं चतुर्वजाङ् िकतं कृत्वा मध्यकोणेषु लं प्रत्येकं लिखेत् । इति यन्त्रविधि । यन्त्रमध्ये मन्त्रो भगवतीमूर्तिर्वा लेख्या । मन्त्रश्चायम्-ॐ ऐं हीं श्रीं वद वद वाग्वादिनी ! भगवति ! सरस्वति ! हीं नमः । एतन्मन्त्रस्य पूर्वसेवा करजप्य: लक्षं जातिपुष्पजातिश्च १२००० ततो दशांशहोमो घृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वा गुटिका संचूर्ण्यते । मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्तिर्वा भगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः । होमे स्वाहा ।
सरस्वतीमन्त्रकल्पः जगदीशं जिनं देवमभिवन्द्याभिशङ्करम् । वक्ष्ये सरस्वतीकल्पं समासायाल्पमेधसाम् ॥ १ ॥ अभयज्ञानमुद्राक्षमालापुस्तकधारिणी। त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ॥ २ ॥ लब्धवाणीप्रसादेन मल्लिषेणेन सूरिणा । रच्यते भारतीकल्प: स्वल्पजाप्यफलप्रदः ॥ ३ ॥ दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी । निर्भयो निर्मदो मन्त्री शास्त्रेऽस्मिन् स प्रशस्यते ॥ ४ ॥ पुलिने निम्नगातीरे पर्वतारामसङ कुले । रम्यैकान्तप्रदेशे वा हर्ये कोलाहलोज्झिते ॥ ५ ॥ तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम् । कुर्यात् पर्यङ्कयोगेन सर्वव्यापारवर्जितः ॥ ६ ॥ तेजोवदद्वयस्याग्रे लिखेद वाग्वादिनीपदम् । ततश्च पञ्च शून्यानि पञ्चसु स्थानकेष्वपि ॥ ७ ॥ ॐ वद वद वाग्वादिनी हाँ हृदयाय नमः । ॐ वद वद वाग्वादिनी ही शिरसे नमः।