________________
सागरमल जैन
SAMBODHI
दशांशहोमसंयुक्तं स स्याद वागीश्वरीसमः ।। महिषाख्यगुग्गुलेन प्रविनिर्मितचनकमात्रसद्गुटिकाः । होममस्त्रिमधुरयुक्त: तुष्टा देवी वरं दत्ते ॥ इति शुद्धं श्रीसारस्वतन् । अथैतत्पीठकमो लिख्यतेपद्मोपरि पद्मासनस्था भगवतीमूर्तिः करचतुष्टधृतवरपद्मा शिरसि षट्कोणाकारमुकुटभ्राजिता नाभौ चतुर्दलपद्मधारिणी लेख्या । ततो नाभिपद्मे कार्णिकायां ऊँकारं लिखेत्, पूर्वादिचतुर्दलेषु १ मः २ सि ३ द्धं ४ इत्यक्षराणि लेख्यानि । अधस्तनदक्षिणकरे षोडशदलं पद्म कृत्वा तत्र कर्णिकायां ऐंकार दत्त्वा पूर्वादिषोडषदलेषु क्रमेण षोडश स्वरान् लिखेत्, अधस्तनवामकरे पञ्चविंशतिदलं पद्म कृत्वा तत्कणिकायां श्रींकारं विलिख्य पूर्वादिपञ्चविंशतिदलेषु क्रमेण क्रमात् कादयो वर्गवर्णाः पञ्चविंशतिर्लेख्याः । अथवोपरितनदक्षिणकरे अष्टदलं पद्म कृत्वा तत्र कणिकायां सा इति बीजं लिखित्वा पूर्वादिदलेषु य-र-ल-व-श-ष-स-ह इत्यष्टौ वर्णा लेख्याः । उपरितनवामकरेऽप्यष्टदलं पद्मं कृत्वा तत्कर्णिकायां क्लीं इति बीजं दत्त्वा पूर्वाद्यष्टदलेषु व १ द २ व ३ छ ४ वा ५ ग्वा ६ दि ७ नि ८ इति वर्णा लेख्याः । शिरःषट्कोणे गर्भे हींकारं लिखित्वा पूर्वादिकोणषट्के स १ र २ स्व ३ त्यै ४ न ५ मः ६ एवमक्षरषट्कं लेख्यम् । सर्वं शुक्लध्यायेन षट्चक्रस्थापनं विधाय ध्येयम् । मूलमन्त्रश्वायम्-ॐ ऐं श्री साँ क्लीं वद वद वाग्वादिनी ही सरस्वत्यै नमः इति पाठशुद्धया मन्त्रं स्मरेत्, करजापो लक्षं जातिपुष्पैः सहस्त्राः १२ जापः । गुग्गुलगुटी १२०० त्रिमधुरमिश्राः कृत्वा होमः कार्यः आश्विने चैत्रे वा नवरात्रेषु कार्य दीपोत्सवामावास्यायां वा ततः सिद्धिः ॥ आम्नायान्तरेण यन्त्रं लिख्यते, यथावृत्तं मण्डलं कृत्वा परितः पर्वादौ चत्वारि दलानि, तत्र पूर्वदले ॐ ही देवतायै नम: १, दक्षिणदले ॐ हीं सरस्वत्यै नम: २, पश्चिमदले ऊँ ही भारत्यै नम: ३, उत्तरदले ॐ हीं कुम्भदेवतायै नमः ४, तबहिरष्टदले, तत्र पूर्वादितः ऊँ मोहे यः १, ऊँ नन्दे य: २, ऊँ भद्रे यः ३, ॐ जये य: ४, ऊँ विजये य: ५, ऊँ अपराजिते य: ६, ऊँ जम्भे यः ७, ऊँ स्तम्भे य: ८, इति लेख्यम् । तद्बहिःषोडशदलानि, तत्र-ॐ