________________
जैनधर्म और श्रुतदेवी सरस्वती
Vol. XXXIII, 2010
79
तद्वेदान्तशिरस्तदोङ् कृतिमुखं तत् तत्कलालोचनं तत्तद्वैदभुजं तदात्महदयं तद्गद्यपद्याङि घ्र च । यस्त्वद्वम विभावयत्यविरतं वाग्देवते ! वाङ मयं शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥ ८ ॥ वाग्वीजं स्मरबीजवेष्टितमतो ज्योति:कला तबहिश्चाष्टद्वादशषोडशद्विगुणितद्व्यष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंस: कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥ ९ ॥
औमैं श्रीमनु सौं ततोऽपि च पुनः क्लीं वदौ वागूवादिन्येतस्मादपि ही ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिक्शतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसाररहितः स्याद् देव्यसौ साम्प्रतम् ॥ १० ॥ स्मृत्वा मन्त्रं सहस्त्रच्छदकमलमनुध्याय नाभीहृदोत्थं श्वेतस्निग्धोर्ध्वनालं हृदि च विकसतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणि वाग्देवी त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ ११ ॥ किमिह बहुविकलपैर्जल्पितैर्यस्य कण्ठे भवति विमलवृत्तस्थूलमुक्तालवीयम् । भवति भवति ! भाषे ! भव्यभाषाविशेषैमधुरमधुसमृद्धस्तस्य वाचांविलासः ॥ १२ ॥ अथ मन्त्रक्रमो लिख्यते-ॐ सरस्वत्यै नमः । अर्चनमन्त्र : । ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्र । ॐ विमले ! विमलजले ! सर्वतीर्थजले ! पां वां इवा इवी अशुचिः शुचीभवामि स्वाहा । आत्मशुद्धिमन्त्रः । ॐ वद वद वाग्वादिनी ही शिरसे नमः । ॐ महापद्मयशसे ही योगपीठाय नमः । ॐ वद वद वाग्वादिनी हूँ शिखायै वषट् । ऊँ वद वद वाग्वादिनी नेत्रद्वयाय वषट् । ॐ वद वद वाग्वादिनी कवचाय हुं । ऊँ वद वद वाग्वादिनी ! अस्त्राय फट् । ॐ अमृते ! अमृतोद्भवे ! अमृतं स्त्रावय ऐ क्ली ब्लूँ द्राँ द्रीं द्रावय दीवय स्वाहा । यो जपेज्जातिकापुष्पैर्भानुसंख्यसहस्त्रक्रम् ।