________________
सागरमल जैन
SAMBODHI
परिशिष्ट श्री सरस्वतीकल्पः ।
-श्री बप्पभट्टसुरि
कन्दात् कुण्डलिनी ! त्वदीयवपुषा निर्गत्य तन्तुत्विषा किञ्चिम्बिमम्बुजं शतदलं त्वद्बह्मरन्ध्रादय : । यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥ १ ॥ यस्त्वद्वक्त्रमृगाङ् कमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुल ! ध्यायति । वाणि ! वाणिविलासभङ् गुरपदप्रागल्भ्यश्रृग्ङ् गारिणी नृत्यत्युन्मदनर्तकीव सरसं तद्वकारङ् गाङ्ग णे ॥ २ ॥ देवि ! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झरस्नानानन्दतरङ् िगतं पिबति यः पीयूषधाराधरम् । तारालंकृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो वक्त्रेणोद्गिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥ ३ ॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणापन्नोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कणिकैः । देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं ब्राह्मि ! ब्रह्मपदस्य वल्गति वचः प्रागल्भदुग्धाम्बुधेः ॥ ४ ॥ नाभीपाण्डुरपुण्डरीककुहराद हृत्पुण्डरीके गलत्पीयूषद्रववर्षिणि ! प्रविशतीं त्वां मातृकामालिनीम् । दृष्ट्वा भारति ! भारती प्रभवति प्रायेण पुंसो यथा निर्ग्रन्थीनि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ॥ ५ ॥ त्वां मुक्तामयसर्वभूषणगणां शुकलाम्बराडम्बरां गौरी गौरिसुधातरङ् गधवलामालोक्य हृत्पङ् कजे । वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करां न स्यात् कः स्फुटवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥ ६ ॥ पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गतगद्यपद्यलहरीलीलाविलासामृतैः सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ७ ॥