SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Vol. XXXIII, 2010 दश शब्दाः येषु भिन्नेषु दशशब्देषु जलवाचकाः नवशब्दाः प्रयुक्ताः । जलशब्दस्य प्रयोगः द्विवारं कृतः । अत्रापि कविप्रतिभा प्रशंसनीया । XII. १४. अम्बु XIII. सलिलम् XIV. पानीयम् पाषाणाः पयसि प्रबद्धवपुषस्तिष्ठन्ति सेतुं गताः श्रुत्वैवं वदतां दशाननधरः क्रुद्धः समुद्रं प्रति । धिक् त्वां नाम तवाम्बुधिः सलिलधिः पानीयधिस्तोयधि: पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः ॥ ९ अत्रापि जलवाचकाः भिन्नाः दशशब्दाः प्रयुक्ताः नयनाभिरामं दृश्यं प्रस्तुवन्ति । XV. १५. संस्कृतसाहित्ये जलविज्ञान श्रीः आस्वादनीयः । १६. अम्भस् हृदाम्भसि व्यस्तवधूकराहते XVI. १७. रवं मृदङ्ग ध्वनिधीरमुज्झति । मुहुः स्तनैस्तालसमं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥२० जलकेलिवर्णनयुतेऽस्मिन् मनोरमे पद्ये जलकेल्या सह वाद्यसङ्गीतस्य नृत्यस्यापि च रस: यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति । तदपि पुरंदर तरुणी 59 संगतिसुखदायिनी गङ्गा ॥ क्षीरम् ततः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि । धिक्कर्माणि स एव कम्बुरधुना पाखण्डकान्ताकरे विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिंभरिः ॥ २ XVII. वारिमृदङ्गवाद्यम् अन्ये जलवाचकाः शब्दाश्च तीरस्थलीबर्हिभरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु सम्मूर्च्छति रक्तमासां १८. गीतानुगं वारिमृदङ्गवाद्यम् ॥२३ जलकेलिप्रसङ्गे रमणीभिः जलतरङ्गेषु करास्फालनद्वारा या ध्वनिः प्रस्तूयते सा वारिमृदङ्ग ध्वनिरित्यभिधीयते । वात्स्यायनमुनिप्रणीसे कामसूत्रे परिगणितासु चतुःषष्टिकलासु उदकवाद्यकलापि एका
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy