________________
58
सुषमा आर. कुलश्रेष्ठ
SAMBODHI
१०. शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किं वातः परमुच्यते स्तुतिपदं यज्जीवनं देहिनां
___ त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धं क्षमः ॥१५ अत्र कविः पयसः (जलस्य) स्वाभाविकान् गुणान् वर्णयति । अन्तिमे चरणे अन्योक्तिसौन्दर्य दर्शनीयम्। ११. कस्येयं तरुणि प्रपा' पथिक न: किं पीयतेऽस्यां पयो
धेनूनामथ माहिषं पथिक रे वारः कथं मङ्गलः । सोमो वाऽथ शनैश्चरोऽमृतमिदं तत्तेऽधरे दृश्यते ।
भो भोः पान्थ विलाससुन्दर सखे यद्रोचते तत्पिब ॥१६ १. पानीयशालिका २. जलम्; (पक्षे) क्षीरम् ३. जलानि; (पक्षे) सोमादिवासरः ४. उदकम्; (पक्षे) पीयूषम् ।
विलक्षणेऽस्मिन् पद्ये श्लेषगर्भा वक्रोक्तिविराजते । प्रपापालिकायाः पथिकस्य च मधुरालापोऽत्र वर्णितः । अत्र जलवाचकाः त्रयः शब्दाः पयः, वारः अमृतञ्च महता नैपुण्येन प्रयुक्ताः। त्रिष्वपि स्थानेषु ते सन्ति श्लिष्टाः । पयसः द्वितीयोऽर्थः क्षीरं (दुग्धम्), वार् इति शब्दस्यान्योऽर्थः सोमादिवासरः अमृतस्य द्वितीयोऽर्थः पीयूषं सुधेति । अत्र पथिकस्य अधरचुम्बनेच्छापि व्यज्यते । VII. पाथस् र उदन्x
वारि १२. अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां
विद्वन्षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद । कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवान्
पाथोधिर्जलधिः पयोधिरु दधिरांनिधिर्वारिधिः ॥१७ समस्यापूर्तिपरकं प्रस्तुतं पद्यमतिशयरमणीयम् । षण्मुखस्य कार्तिकेयस्य षड्भिर्मुखैः युगपदेव उत्तरं प्राप्यते यत् गङ्गायाः गतिः सागरेऽस्ति । अत्र सागरपर्यायाः षड् शब्दाः प्रयुक्ताः येषु षट्सु शब्देषु षट् विभिन्नाः जलव्यञ्जकाः शब्दाः यथा पाथस्, जलं, पयः उदन्, वार्, वारि च एकस्मिन्नेव पद्ये प्रयुक्ताः । कवेः संस्कृतभाषायाञ्च सामर्थ्य दर्शनीयम।
XI. कीलालम् १३. श्रुत्वा सागरबन्धनं दशशिराः सर्वैर्मुखैरेकदा
___ तूर्णं पृच्छति वार्तिकान्सचकितो भीत्या परं सम्भ्रमात् । बद्धः सत्यमपांनिधिर्जलनिधिः कीलालधिस्तोयधिः
___पाथोधिर्जलधिः पयोधिरु दधिर्वारांनिधिर्वारिधिः ॥१८ समस्यापूर्तिपरकेऽस्मिन् श्लोके दशमुखस्य रावणस्य दशमुखेभ्यः युगपदेव निःसृताः समुद्रव्यञ्जकाः