________________
सुषमा आर. कुलश्रेष्ठ
SAMBODHI
२२. नीरम् - नीयते (णीञ् प्रमाणे) । निश्चयेन राति सुखम् ( रा दाने आतश्चोपसर्गे)।
(अमरकोषः रामाश्रमीव्याख्योपेतः पृ. ११९-१२१) २३.क्षीरम्- नीयते णीञ् प्रापणे । निश्चयेन राति सुखम् । रा दाने-आतश्चोपसर्गे २४.अम्बु -अम्बते (अबि शब्द) ।
__ (अमरकोषः रामाश्रमीव्याख्योपेतः पृ. ११९-१२१) २५.शंवरम् - शं वणोति । शं वं संवरणं राति इति वा । संवयति । २६.मेघपुष्पम् - मेघस्य पुष्पमिव २७.घनरसः - घनस्य रसः ।
अत्र नाम्नामग्रतः लिखितानि कति पयानि निर्वचनानि अथर्ववेदस्य 'आपो देवता' नाम्न: सूक्ततः प्रदत्तानि ।
निघण्टुकारेण अमरकोषकारेण च जलस्य अभिधानरूपेण प्रदत्तानि विविधानि नामानि निभाल्य मनसि प्रश्नः समायाति किमर्थमियती भूयसी संख्या जलपर्यायरूपेण विद्यामानानां शब्दानाम् । निश्चयेन वक्तुं शक्यते यत् पञ्चतत्त्वेषु पर्यावरणघटकेषु च सर्वप्राधान्यात् माहात्म्याच्च एतादृशी महीयसी संख्या जलवाचकशब्दानाम्। संस्कृतभाषायाः माहात्म्यमपि व्यज्यते शताधिकानां जलद्योतकशब्दानामुपब्ध्या । एतेषु सर्वेषु जलवाचकशब्देषु प्रत्येकमस्ति महत्त्वपूर्णः प्रत्येकं संस्कृतसाहित्ये प्रयुक्तोऽपि । प्रत्येकं शब्दस्यास्ति किमपि विशिष्टं सौन्दर्यं महत्त्वञ्च, कश्चन विलक्षणश्चमत्कारश्च । एतेषु शब्देषु कतिपयशब्दानां प्रयोगसौन्दर्यमर्थचमत्कारञ्च प्रदर्शयितुं साहित्यतः प्रस्तूयन्ते कानिचित् निदर्शनानि ।
I. अपः १. साक्षात्किलाष्टमूर्तेस्तस्यैषा मूर्तिरम्मयी प्रथमा ।
गीतः सागर इति नृभिरपरिच्छेद्यात्मगाम्भीर्यः ॥ कालिदासेनेवास्याः आर्यायाः प्रणेत्रापि जलमष्टमूर्तेः शिवस्य प्रथमा मूर्तिरिव गण्यते । II. तोयम् III.अमृतम् IV. आपः स्यादेव तोयममृतप्रकृतिर्यदि स्या
नैकान्तमद्भुतमिदं पुनरद्भुतं नः । लक्ष्मीतुषारकरकौस्तुभपारिजात
___ धन्वन्तरिप्रभृतयो यदपां विवर्तः ॥ अत्रैकस्मिन्नेव श्लोके तोयस्य, अमृतस्य, अपाञ्च प्रयोगसौन्दर्यं विलक्षणमस्ति कविप्रतिभाञ्च द्योतयति । ३. हे कूप ! त्वं चिरं जीव स्वल्पतोये बहुव्ययः ।
गुणवद्रिक्तपात्राणि प्राप्नुवन्ति हि पूर्णताम् ॥