SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 104 रमानाथ पाण्डेय SAMBODHI ८५. ६४. फलो पलब्धिक्रियायां नियमो नास्ति (वे. पा. सौ. २.३.३६)।। नन्वयं जीवः कर्ता चेत्तहि पुण्याऽपुण्यक्रियाफलभूतमिष्टमनिष्टञ्चलोच्यानिष्टान्निविण्णो भूत्वेष्टसिद्धये तत्प्रदां क्रियामेव कुर्यादिति चेत्, नेत्याह । उपलब्धिवत् यथाऽस्य प्रागनुष्ठितपुण्याऽपुण्यक्रियाफलभूतयोरिष्टानिष्टयोनियमेनोपलब्धिस्तद्वत्क्रियायां नियमो नास्ति, दैवयोगाच्छुभायां क्वचिदशुभायां च प्रवृत्तिदर्शनात् । वे. कौ. - २.३.३६ तज्जीवस्य कर्तृत्वं पराद्धेहेतोरस्ति । 'अन्तः प्रविष्टः शास्ता जनानाभि (तै. ३.११.१०)'त्यादेः श्रुतेः । वे. पा. सौ. २.३.४० ६६. न स्वातन्त्र्येणेत्यर्थः । कुतः? 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्नीनिषते, एष एव असाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधोनिनीषते, अन्तः प्रविष्टः शास्ता जनानां य आत्मानमन्तरो यमयती'त्यादिश्रुतेः । 'सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्चे'तिस्मृतेश्च । वे. कौ. २.३.४० ॥ ६७. ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ गीता -८.६१ ६८. वैषम्यादिदोषनिरासार्थस्तुशब्दः । जीवकृतकर्मापेक्षः परोऽन्यस्मिन्नपि जन्मनि धर्मादिकं कारयति विहितप्रतिषिद्धाऽवैयादिभ्यः ॥ वे. पा. सौ. २.३.४१ जीवस्य परमपुरुषांशत्वे अंशी सुखदुःखं नानुभवति, यथा प्रकाशादिः स्वंशगतगुणदोषवज्जितो भवति । वे. पा. सौ. - २.३.४५ । ७०. 'तत्र यः परमात्माऽसौ स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥ कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते' इत्यादिना स्मरन्ति च ॥ वे. पा. सौ. २.३.४६ ७१. 'स सप्तदशकेनापि राशिना युज्यते पुनरि'त्यादिना मुनयोंऽशकृतकर्मफलैरंश एव युज्यते अंशी तु नेति स्मरन्ति । 'तयोरन्यः पिप्पलं स्वाद्वति अनश्नन्नन्योऽभिचाकशीती (मुण्डको. ३.१.१)' ति श्रूयते च ॥ वे. कौ. २.३.४६ ॥ ७२. ...जीवानां ब्रह्मांशत्वेन समत्वेऽपि विषमशरीरसम्बन्धात् - वे. पा. सौ. २.३.४७ ।। विभोरंशत्वेऽपि गुणेन विभुत्वेऽपि चात्मनां स्वरूपतोऽणुत्वेन सर्वगतत्वाभावात् कर्मादिव्यतिकरो नास्ति ॥ वे. पा. सौ. २.३.४८ ७३. 000
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy