________________
100
रमानाथ पाण्डेय
SAMBODHI
वहाँ पुनः करने के लिये कुछ भी अवशिष्ट नहीं रहता । अतः ज्ञानोत्पत्ति के बाद कर्मों को वहाँ निरर्थक व निष्प्रयोजन कहा गया है । द्वैताद्वैत दर्शन जीवनमुक्ति के सिद्धान्त को नहीं स्वीकार करता है क्योंकि जो सम्प्रदाय जीवनमुक्ति के सिद्धान्त को स्वीकार करते हैं उनके समक्ष ज्ञानोपलब्धि के पश्चात् कर्म की उपपत्ति की विशेष समस्या रहती है ।
सन्दर्भ :
सर्ववेदान्तशास्रप्रसिद्ध ब्रह्मणि पुरुषोत्तमे द्रष्टे साक्षादनुभूते सति हृदयग्रन्थिः अनादिकर्मनिरूपित-मायासम्ब्धः 'कारणं गुणसंगोऽस्य सदसद्योनिजन्मस्वि'तिश्रीमुखोक्तेः भिद्यते ध्वंसमापद्यते स्वयमेवेति कर्मकर्तृप्रयोगः साधनान्तरनिरपेक्षत्वसौकर्यद्योतनार्थः सूर्यप्रकाशे तमोवत् तत्कार्यभूताः सर्वसंशयाः आत्मपरमात्मसाधनफलसम्बन्धादिविषयकाः स्वयमेव छिद्यन्ते तत्र हेतुमाह अस्य कर्माणि क्षीयन्ते इति...अस्य भगवत्प्रसादैकविषयस्य चरमजन्मनो विदुषस्साक्षाद्र्ष्टुः सञ्चितक्रियमाणप्रारब्धाख्यानि सर्वकर्माणि क्षीयन्ते पुण्यापुण्यरूपाणि क्षयमापद्यन्ते । परपक्षगिरिवज्र पृ. ५९७, ९८१ । द्र. भारतीय दर्शन का इतिहास - भाग-३, डॉ. एस. एन. दासगुप्ता, राजस्थान हिन्दी ग्रन्थ अकादमी, जयपुर, पृ. ३७४ अथाधीतषडङ्गवेदेन कर्मफलक्षयाक्षयत्वविषयकविवेकप्रकारकवाक्यार्थजन्यसंशयाविष्टेन तत एव जिज्ञासितधर्ममीमांसाशास्त्रेण तन्निश्चतकर्मत्प्रकारतत्फलविषयकज्ञानवता कर्मब्रह्मफल(योः) सान्तत्वसातिशयत्वनिरतिशयत्वविषयकव्यवसायजातनिर्वेदेन भगवत्प्रसादेप्सुना तद्दर्शनेच्छालम्पटेनाचार्यैकदेवेन श्रीगुरुभक्त्येकहार्दैन मुमुक्षुणाऽनन्ताचिन्त्यस्वाभाविकस्वरूपगुणशक्त्यादिभिर्बहत्तमो यो रमाकान्तः पुरुषोत्तमो ब्रह्मशब्दाभिधेयस्तद्विषयिका जिज्ञासा सततं संपादनीयेत्युपक्रम वाक्यार्थः । वेदान्तपारिजातसौरभ - १.१.१ (श्रीबह्मसूत्रम्-पं०ढुण्डिराजशास्त्रिणा संशोधितम्) .... तस्य सर्वकर्मकादिकारकनियन्तृत्वेन स्वातन्त्र्यात्तत्फलदातृत्वाच्च, प्रत्युत कर्मण एव विविदिषोत्पादनेन परम्परया तत्प्राप्तिसाधनीभूतज्ञानोत्पत्त्युपकारकत्वेन समन्वय इति निश्चीयते, विविदिषाश्रुतेः । वही – १.१.४ भारतीय दर्शन – बलदेव उपाध्याय पृ. ४०९ । 'यो वै बालाके ! एतेषां पुरुषाणां कर्ता यस्यैतत्कर्म (कौषीतकी, ४.१७)' इति वाक्ये धर्माधर्मकर्म-फलभोक्ता तन्त्रोक्तपुरुषो वेदितव्यः इति न शंक्यम् । परमात्मैवात्र वेदितव्यत्वेन निर्दिष्टः । कुत: ? "ब्रह्म ते ब्रवाणि" इति ब्रह्मप्रकरणात् । क्रियते यत्तत्कर्मेति कर्मशब्दस्य जगद्वाचित्वात्, "एतदि" त्यनेन सर्वानाम्ना प्रत्यक्षादिप्रमाणसिद्धस्य जगत उपस्थितत्वाच्च, तन्त्रोक्तपुरुषप्रकरणाभावाच्च ॥ ब्र. सू. १.४.१६ पर वे. पा. सौ., |
....क्षीरवत्कार्यकारेण ब्रह्म परिणमते स्वासाधारणशक्तिमत्त्वात् । वे. पा. सौ. २.१.२३ ८. यथा देवालयः संकल्पमात्रेण स्वापेक्षितं सृजन्ति तथा भगवानपि । वे. पा. सौ. २.१.२४ ॥
विषमसृष्टिसंहारादिनिमित्तवैषम्यनैघृण्ये जीवकर्मसापेक्षत्वात्पर्जन्यस्येव जगज्जन्मादिकर्तुर्न स्यातां, तथैव दर्शयति 'पुण्यो
वै पुण्येन कर्मणा, पाप: पापेन (बृहदा.-६.४.५)' इति श्रुतिः । वे.पा.सौ. २.१.३३ १०. ननु ‘सदेव सौम्येदमग्र आसीदेकमि'ति सृष्टेः प्रागविभागश्रवणात् कर्मसापेक्षत्वं परस्य न सङ्गच्छते इति चेन्न । कर्मणां
पूर्वसृष्टिस्थजीवकृतानामनादित्वात्तदानीमपि सत्त्वात्पूर्वसृष्टिरपि अकस्मादुत्तरसृष्ट्यनुपपत्त्योपपद्यते च । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदि'त्यादावुपलभ्यते चापि । वे. पा. सौ. २.१.३४