SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 141 Vol. xxx, 2006 साङ्ख्यदर्शनस्य वैशिष्ट्यम् द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ एवञ्च क्षरः पुरुषः भूतपदवाच्यः अक्षरो जीवपदवाच्यः । ईश्वरः परमात्मपदवाच्यो भवति । आत्मनि परमत्वम् अकारणकरुणाकारित्वमेव । ईश्वरो वा साधुर्वा परेषां साधुवादेन कल्याणमेव वाञ्छति । यद्यपि सांख्यदर्शनं निरीश्वरवादत्वेन प्रतिपादितमस्ति तथापि तन्मते प्रकृत्या सह पुरुषविशेषस्य संयोगवशादेव सृष्टिर्भवति - इति तु यत्र तत्र सर्वत्र व्याख्यानेनावगतं भवति । परञ्च विचार्यताम्-सांख्ययोगौ न तावत् पृथग् वर्तेते । एवं हि पृथगिति कथनेन इदमेव ज्ञातं भवति यद् यथा पातञ्जलयोगदर्शने ईश्वरस्य अस्तित्वं स्वीकृतमस्ति न तथा तस्य अस्तित्वं सांख्यमते स्पष्टतया खण्डितमस्ति । इत्यनेनापि अवगम्यते यत्सांख्यदर्शनं योगदर्शनञ्च समानतन्त्रं विद्यत इति । यथा न्यायदर्शनं वैशेषिकदर्शनञ्च पार्थक्येनापि समानतन्त्रत्वेन स्वीकृतमस्ति तत् कस्य हेतोः । तत्र इदमेव तथ्यं प्रतिभाति यत् यत्तत्त्वं प्रमेयरूपं न्यायदर्शनं स्वीकरोति तदेव तत्त्वं वैशेषिकदर्शनमपि, किन्तु इयानेव द्वयोर्विशेषः परिलक्ष्यते यत्सांख्यदर्शनम् ईश्वरस्यास्तित्वविषये भवतु नाम उदासीनं किन्तु तत्कथनस्याभिप्रायो वर्तते यद् यथावेदान्तदर्शने माया अविद्या वा चेतनाधिष्ठिता चैतन्यवशादेव जगदिदं सृजति न तथा सांख्यमते । सांख्यमते प्रधानीभूता प्रकृतिः स्वतन्त्रा न तावच्चेतनाधिष्ठिता। इदमेव कारणं वर्तते यत्प्रकृतौ प्रधानत्वं सांख्याचार्यैः स्वीकृतम् । तत्र सांख्यमते या प्रकृतिः सैव वेदान्तमतेऽविद्या माया वा । केषाञ्चिद् आचार्याणां मते अविद्या माया च पृथक्-पृथग् वर्तते किन्तु केचन आचार्यास्तयोरभेद इति स्वीकुर्वन्ति । अत एव भामतीकारेण वाचस्पतिमिश्रेण अविद्यापदेन एक: मायाविशेषः स्वीकृत अपरश्च संस्कारविशेषः । किन्तु सांख्यमते एकविधैव प्रकृतिः । इदं च न विस्मर्त्तव्यं यत् प्रारम्भे एव ईश्वरकृष्णेन अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां नमामः । अजा ये तां जुषमाणां भजन्ते जहत्येनां भक्तभोगां नमस्तान ।। (सां० तत्त्वकौ०) इत्युक्तं सङ्गच्छते । अत एव संक्षेपतः सांख्यमते त्रिविध एव पदार्थः । कश्चित् प्रकृतिरूपः कश्चित् विकृतिरूपः । कश्चिच्चानुभयरूपः । प्रकृतित्वञ्च तत्त्वान्तरोपादानकत्वम् । अत एव गोघटादीनां तत्त्वपरिगणने न तावत् सांख्याचार्यैः परिगणनं कृतम् । एतत् कारणवशादेव इदं दर्शनं सांख्यं संख्याप्रधानमिति कथ्यते । वेदान्तमते पुरुषो न तावदुदासीनः । एतन्मते पुरुषः उदासीनो भवति । अत्र नये बिम्बप्रतिबिम्बभावः स्वीकृतो विद्यते । सांख्यमते यज्ज्ञानं तच्च न बुद्धिर्या बुद्धिस्तन्न ज्ञानमिति । अन्यमते ज्ञानं पृथग् बुद्धिरपि पृथग् भवति । एतन्मतखण्डनायैव न्यायदर्शने गौतमीयं सूत्रं 'सर्वव्यवहारहेतुर्बुद्धिर्ज्ञानम्' इति सामानाधिकरण्येन उक्तं वचनं संगच्छते । किन्तु एतन्मते बुद्धावेव ज्ञानं भवति ज्ञानं चात्र वृत्तिरूपम् परञ्च अन्येषां दार्शनिकानां मते बुद्धिर्गुणरूपम् । सांख्यमते बुद्धावेव सुखदुःखादिकं सर्वम् आविर्भवति । तच्च बुद्धौ प्रतिबिम्बवशादेव पुरुषोऽनुभवति । तत्र पुरुषविशेषः प्रतिबिम्बते । एतस्मात् कारणात् प्रतिबिम्बवशात् पुरुषः अहं सुखी अहं दु:खी इति समनुभवति । बिम्बप्रतिबिम्बभावस्तु न तावद् वास्तविक अपितु अवास्तविक एव । अत एव
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy