SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 140 देवनारायण झा SAMBODHI पुरुषो द्रष्टा चेतनः किन्तु प्रकृतिश्चेतना जडीभूता विद्यत इति । प्रकृतौ क्रियाशक्तिविद्यते किन्तु दर्शनशक्तेरभावादुभयोः समागमादेव सर्गकृतं कार्य पूर्णतामधिगच्छतीति सांख्याः समनुमन्वते । ततश्चेदं निर्णीतं भवति यद् यदवधि पुरुषस्य विमोक्षो न भवति तदवधि जरामरणजं दुःखमनुभवन्नेव पुरुषोऽवतिष्ठते । मोक्षश्च विवेकख्यातिवशादेव सञ्जायते । विवेकख्यातिश्च प्रकृतिपुरुषयोर्भेदज्ञानरूपा । सांख्यरीत्या व्यक्ताव्यक्तपुरुषादीनां विज्ञानं नाम साधर्म्य-वैधर्म्यविज्ञानं, तद् ज्ञानादेव विवेकख्यातिराविर्भवति । तत्सकाशादेव मोक्षावाप्तिः सञ्जायते । यदुक्तम् एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धः केवलमुत्पद्यते ज्ञानम् ॥ अत्र चैतद् विभावनीयं भवति यद् निसर्गरम्या कोमला सलज्जा प्रकृतिस्तथैव पुरुषं प्रति आत्मानं प्रदर्श्य निवृत्तिमुपैति यथा रंगभूमौ समागता काचन नर्तकी स्वकीयां नृत्यकलां प्रदर्श्य निवृत्तिमधिगच्छतीति । यथा रंगस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ (सां० का० ५९) एतन्मते जगतः असत्यत्वं नैव अभ्युपेयमस्ति । जगदिदं यत्त्रिगुणात्मकं दृश्यते, तस्य कारणमव्यक्तमेव बोध्यम् । नहि कुत्रचिद् वस्तुनि अभावजन्यत्वं स्वीकृतमस्ति किन्तु प्रत्यक्षादिगोचरत्वेन भावजन्यत्वमेव । कार्यस्य कारणात्मभूतत्वस्यैव स्वीकारात् । अत्रेदमनुसन्धेयं भवति यत्सांख्यमते द्विविधः परिणामो भवति । तत्र कदाचित् क्रियात्मकः परिणामो यथा महदादौ । उक्तञ्च साधर्म्यवैधर्म्यनिरूपणावसरे हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ (सां० का० १०) अत्रेदं नैव विस्मर्त्तव्यं यत् प्रकृतौ प्रधानीभूतायाम् अर्थात् मूलप्रकृतौ स्पन्दात्मिका क्रिया नैव तिष्ठतीति । यतो हि मूलप्रकृतिर्व्यापिका सिद्धा च सांख्यमतेऽवगम्यते । किं बहुना इदानीन्तने प्राचीनकाले वा एतादृशं स्थानं तत्त्वं वा नासीद् न वा विद्यते यत्र सूक्ष्मरूपेण प्रकृतेरस्तित्वं न स्यादिति । अत एव च सांख्याचार्यमते साकल्येन उक्तं संगच्छते यद् जगदिदं त्रिगुणात्मकं वर्तत इति । एतादृशं स्थानं नास्ति यत्र गुणत्रयस्य एकत्र सम्मेलनं न स्यात् । अत एव त्रिषु गुणेषु सत्स्वपि कुत्रचित् सत्त्वगुणस्याधिक्यं क्वचित् रजोगुणस्य, कुत्रचिच्च तमोगुणस्य । उक्तञ्च ईश्वरकृष्णेन जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ (सां० का० १८) अत्रायमभिप्रायो यत् सांख्यमते न्यायदर्शनवद् आत्मा पुरुषविशेषोऽनेकविधः स्वीकृतो विद्यते । अत एव लोके दृश्यते यत्कश्चित् पुरुषः सत्त्वगुणप्रकृतिकः संसारस्योपकारमेव वाञ्छति कदाचिदपि परेषामनुपकारं कर्तुं नैव समुत्सहते अयमेव पुरुषः साधुपदवाच्यो भवति । कश्चित्पुरुषः क्रोधाग्निना सर्वदैव परेषां दुःखं दित्सुः आस्ते । कश्चित् पुरुषस्तमोगुणप्रकृतिको भवति । अत्र हि सांख्यमतेनैव भगवता श्रीकृष्णेन गीतायां त्रिविधः पुरुषो निरूपितः । तद्यथा
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy