________________
139
Vol. xxx, 2006
साङ्ख्यदर्शनस्य वैशिष्ट्यम् नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ (गी० २/१६) इत्थञ्च सत्कार्यवादसिद्धान्ताभ्युपगमदिशैव सिकताभ्यस्तैलोपलब्धिर्न जायते प्रत्युत तिलेभ्यस्तैलं दुग्धेभ्यो दधि सञ्जायते परिणमते वा । अत्र च शास्त्रे परिणामवाद एव स्वीकृतो विद्यते । अत एव च सांख्यदर्शने प्रकृतौ परिणामरूपा क्रियाऽपि स्वीकृता विद्यते । सांख्यदर्शने द्विविधा क्रिया स्वीक्रियते-एका स्पन्दरूपा अपरा च परिणामरूपा । परिणामरूपा क्रिया मूलप्रकृतावेव तिष्ठति । स्पन्दरूपा क्रिया महदादिषु तिष्ठति । न हि क्रियां विना जगतः समुत्पत्तिः सम्भवेति विज्ञाय परिणामरूपा क्रिया मूलप्रकृतावकामेनैव स्वीकृता सांख्यतत्त्वविद्भिरिति । सा च प्रकृतिः कार्य-कारणरूपेण सत्त्वादिरूपगुणानां समुद्रेकवशात् परिणमते इति तत्त्वविदां सरणिः । किं बहुना इह संसारे कार्यमात्रस्य गुणत्रयात्मकत्वेऽपि क्वचित् सत्त्वगुणस्याधिक्यं, क्वचिद रजोगणस्य, क्वचित तमोगुणस्याधिक्यं समनुभूयते । अत एव जगदिदं त्रिगुणात्मकं सत्त्वगुणादिप्रधानं कथ्यते। अत एव देवीभागतेऽपि तथ्यमिदं निरूपितं दृश्यते । तद्यथा--
गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् ।
विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः ॥ (देवीभा० ६.३१.४८) अत्र दर्शने प्रतिपादितः पुरुषः सर्वथा उदासीनो निर्गुणः किन्तु चेतनः द्रष्टा साक्षी चेति सांख्यसिद्धान्तसिद्ध: । सांख्यमते आत्मनोऽनेकत्वं ज्ञानरूपत्वं व्यापकत्वञ्च प्रसिद्धमिति । एतन्मते सुखदुःखादिकं बुद्धावेव आविर्भवति । अत्रेदमवधेयं भवति यत्सांख्यदर्शने कस्यापि पदार्थस्य नाशो जन्म च न भवति किन्तु आविर्भाव-तिरोभावावेव भवतः । अत्र दर्शने पुरुष-प्रकृत्योः संयोगः पङ्ग्वन्धवत्स्वीकृतो विद्यते। प्रकृतिर्भोग्या पुरुषश्च आध्यासिको भोक्ता वर्तते न तु वास्तविक इति । अत्र भगवता भर्तृहरिणाप्यवादि
एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ (वा० प० १/४) अत एव उभयोः सम्बन्धः आध्यासिक एव स्वीकृतो विद्यते । एतन्मते सुखदुःखादीनि बुद्धिगतानि एव सन्ति किन्तु बुद्धौ प्रतिबिम्बवशादेव पुरुषोऽपि तानि समनुभवति । उक्तञ्च वाचस्पतिमिश्रचरणैः
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धः केवलमुत्पद्यते ज्ञानम् ॥ (सां० तत्त्वकौ० २) तद्यथा न्यायशास्त्रदिशा सुखदुःखादय आत्मनि तिष्ठन्ति । वेदान्तरीत्याऽन्तःकरणस्य मनसो धर्मत्वं सुखदुःखादीनां संसाधितं वर्तते तथैव सांख्यदर्शनदिशा सुखदुःखादयो धर्मा बुद्धावेव सन्तिष्ठन्ते । इयान् एवात्र विशेषः । पुरुषस्तु भेदाग्रहात् प्रकृतिगतं दुःखत्रयं स्वस्मिन् मन्यमानस्तदपाकरणाय कैवल्यमभीप्सति । पुरुषपदवाच्यश्चात्र जीव एव स्वीक्रियते । जीवातिरिक्तो नास्ति कश्चन ईश्वरपदार्थः । अत एव दर्शनमिदं निरीश्वरसांख्यदर्शनमित्युच्यते । युक्त्या विचार्यमाणे मतमिदं विद्योतते यत्रिविध-दुःखनिवृत्तिः कथं स्यादिति । सांख्यदर्शने आधिदैविकम् आधिभौतिकम् आध्यात्मिकञ्चेति त्रिविधं दुःखं प्रसिद्धमस्ति । अत्रेदं बोध्यं यत्