SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 138 देवनारायण झा SAMBODHI सन्ति तान्येव योगशास्त्रेऽपि परिगणितानि सन्ति । अत एव सांख्ययोगयोः समानतन्त्रत्वं प्रतिपादितवता भगवता श्रीकृष्णेन गीतायामुक्तम् सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ (गी० ५-४) तत्रेदं प्रतिपादितं भवति यत् सांख्यमते प्रकृतिरेव जगत्कर्तीति । सैव मूलप्रकृतिरपि कथ्यते । मूलप्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था इत्युच्यते । सांख्यानां पदार्थविभागप्रकारस्तु ईदृशो विद्यते मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृति ने विकृतिः पुरुषः ॥ (सां० का० ३) सांख्यमते मूलप्रकृतिः स्वतन्त्रा वर्तते । वेदान्तदिशा प्रकृतेः स्वातन्त्र्यं नाभ्युपगतमस्ति । तन्मते मायैव प्रकृतिशब्दवाच्या विद्यते । वेदान्तमते जगन्निमित्तोपादानकारणत्वं ब्रह्मणः प्रतिपादितमस्ति । सांख्यदर्शने गुणत्रयात्मिकायां प्रकृतौ गुणवैषम्यान्महदादिक्रमेण सूक्ष्म-स्थूलभौतिकादिजगतः संसृष्टिः सञ्जायत इति मतं स्वीकृतम् अस्ति । इत्थञ्च प्रकृतेश्चेतनत्वाज्जगदुत्पत्तिकारणसामर्थ्ययोग्यताविरहाच्च तन्मतखण्डनायैव भगवता व्यासेन 'ईक्षते शब्दम्' इति सूत्रयाञ्चक्रे । सूत्रार्थस्तु अशब्दं शब्दप्रमाणशून्यं स्वतन्त्रं-प्रधानं न जगत्कारणम् । जगत्कारणस्येक्षितृत्वश्रवणविरोधात् इति । वस्तुतस्त्वत्र सांख्यदर्शने पञ्चविंशतितत्त्वानि विश्रुतानि सन्ति । तथा च सर्वविधप्रमेयसाधकतया कानिचित् प्रमाणान्यपि स्वीकर्तव्यानि भवन्तीतिधिया प्रत्यक्षानुमानशब्दात्मभूतानि त्रीणि प्रमाणानि स्वीकृतानि सन्ति सांख्यदर्शने । तद्यथा दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ (सां० का० ४) महादर्शभूतस्यास्य दर्शनशास्त्रस्य सिद्धान्तपक्षः सत्कार्यवादमादायैव प्रवर्तते । अत्र दर्शने कारणावस्थायामपि कार्यं सूक्ष्मरूपेण तिष्ठति । यदुक्तम् असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।। शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥ (सां० का० ९) अत्रायमाशयो यद् अत्र जगति यद् यद् क्रियमाणं भवति तत् तद् सदेव भवति । यदेवं न भवति तत् क्रियमाणमपि न भवति यथा शशशृङ्गादिकम् । किं बहुना इतोऽपि सत्कार्यवादः समाश्रियते यद् घटार्थी उपादानकारणमेव उपादत्ते न त्वन्यत्किञ्चित् । इतोऽपि कार्यं सद् भवति यदा कारणे सूक्ष्मरूपेण कार्य तिष्ठति अत एव सर्वस्मात् सर्वस्योत्पत्तिर्न सञ्जायते । इतोऽपि कार्यं सद् वर्तते यच्छक्त्याश्रयेषु एव तत्त्वादिषु शक्यकारणं भवति । इतोऽपि कार्यं सद् विज्ञायते यत् कार्यात् पूर्वमपि कार्योत्पादिका शक्ति: कारणेषु तिष्ठति । इतोऽपि कार्यं सत् भवति यत्सर्वं खलु कार्यं कारणात्मकं भवति । नहि खलु बालुकाभ्यस्तैलोत्पत्तिर्दृश्यते । अमुमेवाभिप्रायं मनसि निधाय भगवता श्रीकृष्णेन गीतायां स्वकीयाभिप्राय ईदृश एव प्रकटीकृतः । यथा
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy