SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ साङ्ख्यदर्शनस्य वैशिष्ट्यम् देवनारायण झा अथेदानीं सांख्यदर्शनस्य वैशिष्ट्यविषयमधिकृत्य कञ्चन विचारं प्रस्तोतुमुपक्रमते । इह हि विरञ्चिप्रपञ्चिते संसारे समेषां प्रेक्षावतां जनानां दुःखनिवृत्तिपुरस्सरं निरतिशयसुखावाप्तौ सोत्साहं प्रवृत्तिर्दृश्यते । तत्र न केवलं मुमुक्षुरेव यतमानः संलक्ष्यते, अपितु पामरोऽपि जनो निरतिशयसखावाप्तिलक्षणस्य मोक्षस्य कते यततेतरामिति । सा च मोक्षावाप्तिविधिमुखेन निषेधमुखेन वा आत्मज्ञानमन्तरा न भवितुमर्हतीति पक्षः सर्वसिद्धान्तवेद्यो विद्यते । अत एव दर्शनशास्त्रमर्मज्ञैः शास्त्रकृभिर्दर्शनाख्यो ग्रन्थो न्यबन्धि । न हि लौकिकेभ्यो वस्तुभ्यः कथमपि चिरस्थायि-सुखावाप्तिप्रत्याशा कर्त्तव्येति समीचीनः पन्थाः प्रतिभाति । सत्सु विविधेषु दर्शनेष्वात्मतत्त्वप्रतिष्ठापकेष स्थितस्य गतिश्चिन्तनीयेतिसिद्धान्तमररीकृत्य सांख्यदर्शनदिशा कश्चन सिद्धान्तः संसाध्यते । तत्रभवन्तस्तत्त्वविदो विद्वांसो जानन्त्येव यत्सांख्यदर्शनं निरीश्वरसांख्यदर्शनमित्युच्यते । तस्य प्रणेता कपिलो मुनि वर्तत इति दार्शनिकाः प्रमाणयन्ति, स्वीकुर्वन्ति च । एतन्मते पदार्थमात्रस्य संक्षेपतश्चत्वारो भेदाः सम्भवन्तीति तदीयः सर्वमान्यः सिद्धान्तः । तच्च प्रकृतिः, विकृतिः प्रकृति-विकृतिः तदुभयरहितः पदार्थश्चेति । यद्यपि विश्वेस्मिन् तत्त्वज्ञानप्रतिपादकानि सन्ति बहूनि दर्शनानि, यथा-न्याय-वैशेषिकपूर्वमीमांसोत्तरमीमांसायोगाख्यानि प्रधानभूतानि षड्दर्शनानि-इति । तेषु प्रथितेषु षड्विधदर्शनेषु सर्वोत्कृष्टतमं सर्वशास्त्रनिष्यन्दभूतं सांख्यदर्शनमिदमादिमं स्थानं लभत इति बुधा आमनन्ति । तत्र सर्वे विचारदक्षाः प्राणिनः स्वकीयसामर्थ्यबलात्सूक्ष्मविचारदृष्ट्या वा जगतः सत्यत्वस्वरूपावबोधाय सर्वोत्कृष्टतां गतस्य सांख्यदर्शनस्य वैशिष्ट्यं स्वीकुर्वन्ति । श्रीमता भगवता श्रीकृष्णेनापि भागवताख्ये महापुराणे देवहूतिमधिकृत्य निसर्गदुर्बोधं ज्ञानप्रदं सांख्यतत्त्वं समुपदिष्टं तन्नाविदितं तत्त्वविदां शेमुषीजुषां जनानामिति । ततश्च प्रसिद्धेयं परम्पराऽऽधुनाप्यविच्छिन्नगत्या शिष्योपशिष्यैरनुगीयमाना प्रवर्धमाना च समवलोक्यते । इत्थञ्च सर्वदर्शनस्वतन्त्रो वाचस्पतिमिश्रः सांख्यतत्त्वकौमुद्यां प्रतिबोधयति यदस्य शास्त्रस्य प्रवर्तकः सूत्रप्रणेता वा सर्वप्रथमोऽत्रभवान् कपिलो महामुनिः सर्वज्ञान-विज्ञान-वैराग्यैश्वर्यादि-सम्पन्नो जगदिदं स्वजन्मना समलञ्चकार । तदनन्तरं यथाक्रम शास्त्रमिदम्, ईश्वरकृष्णेनाधिगतमिति । तेन च विदुषा सप्ततिसंख्याककारिकोपेता सांख्यकारिकां निर्मिता । सा च अधुनापि प्रमाणभूता विद्यते । वस्तुतस्तु भारतेऽध्यात्मविद्याया विकासः सांख्यशास्त्रद्वारैव सर्वत्र संजात इति-अद्वैतिनः शङ्कराचार्यादयोऽपि मन्वते । यथैव प्राचीनाः सांख्यशास्त्रस्य महत्त्वम् उररीकुर्वन्ति तथैव अर्वाचीना अपि तस्य दर्शनस्य महन्महत्त्वं संसाधयन्ति । अतश्चास्य वैशिष्ट्यं सर्वत्र शास्त्रे विजृम्भते । इत्थञ्च यानि पञ्चविंशति तत्त्वानि सांख्ये प्रतिपादितानि
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy