SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Vol. xxx, 2006 वैदिकसूक्ते निउटन्नियमानां सांकेतिकरूपम् 115 वेदव्याख्यानमाध्यात्मिकं तथा महर्षिदयानन्दस्य वेदव्याख्यानं वैज्ञानिकमिति । अतः वेदे कस्यापि वैज्ञानिकतथ्यस्यान्वेषणे तदेव वैज्ञानिकभाष्यमनुशीलनीयम् । शोधपत्रस्याभिमुख्यम् शोधपत्रेऽस्मिन् निउटन्नियमाः वेदमन्त्रे वर्तन्ते न वेति परीक्षायै स्वीकृताः सन्ति । एतदर्थं महर्षिदयानन्दमहोदयानां वैज्ञानिकव्याख्याशैली एवाधारशिलारूपेण स्वीकृतास्ति । ४. निउटन् महोदयस्य प्रथमनियमस्य संकेत: सूर्यस्य महाकर्षणबलस्य तथा ग्रहेभ्यः प्रकाशदानस्य वर्णनं यद्यपि मन्त्रे सुस्पष्टं तथापि सवितृदेवस्य प्रसिद्ध मन्त्रेऽस्मिन् कस्यचिदाधुनिकतथ्यस्य सम्भावनात्रालोच्यते । आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्य च । हिरण्मयेन सविता रथेन देवो याति भुवनानि पश्यन् ।। (ऋक्-१.३५.२) अर्थात् आकर्षणयुक्तगत्यामृतं तथा मर्त्य संस्थापयन् सविता हिरण्मयेन रथेन लोकसकलं दृष्ट्वा गच्छति । (क) विशेषार्थः _ 'कृष्' धातु आकर्षणार्थे प्रयुज्यते । सूर्य आकर्षणयुक्तमिति मन्त्रादनुमीयते । 'रजस्' शब्दस्याभिप्रायः 'गति' एव भवति यथा सृष्टिविज्ञाने स्पष्टीकृतोऽस्ति । सूर्यः स्वाकर्षकगत्या मर्त्यममृतं च स्थापयति । प्रतीयते ते एव ग्रहा अमृताः यत्र मरणधर्मिणः जीवनस्य सत्ता नास्ति तथा मर्त्यलोकः सः यत्र जीवनमृत्योः सत्ता विद्यते । प्रायेण सर्वैरेव भाष्कारैरमृतमर्त्ययोः मध्ये भिन्नता स्वीकृतास्ति । गुणगुणिनोः तादात्म्यं बहुश: परिदृश्यते । अतः मरणधर्मयुक्तपदार्थैः युक्तान् ग्रहान् मर्त्याः तथैतादृशानां विनाशशीलपदार्थनामभावात् स्वस्य स्वाभाविकरूपेऽवस्थानकारणादपरे ग्रहा अमृता इत्युच्यन्ते । एतान् सर्वान् सूर्यः स्वस्याकर्षणबलेन तत्तत्कक्षपथेषु अवस्थापयितुं समर्थः भवति । अन्यथा गतिहीनावस्थायां सूर्यस्य महाकर्षणबलेनाकृष्यमाणाः ग्रहाः सूर्यस्योपरि निपतिताः भवेयुः । आधुनिकविज्ञानमपि तथ्यस्यास्य कथ्यं प्रस्तौति यत् ग्रहाः गतिशीलाः । यद्यैते ग्रहाः गत्यौ न भवेयुः तर्हि सूर्येऽऽपतिताः स्युः । तथ्यमेतत् वैज्ञानिकानां कृते सुबहुगुरुत्वपूर्णम् । यतः विशिष्टज्ञानमेतत् सामान्यज्ञानं संकेतयति तथा नियमयति । (ख) गतितत्त्वस्य प्रथम: नियमः "यदि किञ्चित् वस्तु गत्यौ स्यात् तर्हि एकयैव सरलरेखया गतिशीलं स्यात् यावत्पर्य्यन्तमेतत् केनचिदपरेण बलेन नाकषितं भवति ।" Newton's 1st Law-A body is at rest or is moving with uniform velocity (speed and direction) as long as no external force is acting on it.
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy