________________
114
पराम्बा श्रीयोगमाया
SAMBODHI
समयत आधुनिकविज्ञानस्य जन्म । आधुनिकविज्ञानस्याध्ययनं यदा (१६००-१७०० A.D.) सुव्यवस्थितरूपेण विश्वविद्यालयेषु प्रारब्धं तदास्य स्वरूपं “प्राकृतिकं दर्शनम्' इत्याख्यया जातम् । सर्वपुरातनं वैज्ञानिकं शोधपत्रं “Philosophical Magazine" नाम्ना प्रकाशितमासीत् युक्तराज्यतः । अधुनापि कश्चित् मनसः गुरुत्वं स्वीकरिष्यति यदि सः विश्वस्य साम्प्रतिकवैज्ञानिकस्य तथा केम्ब्रिजविश्वविद्यालयस्य प्रध्यापकस्य “Stephen Hawking” महोदयस्योदाहरणं पश्यति यो शरीरिकाक्षमः । सः मनसा एवाविष्करोत्यन्तरीक्षे आकाशगंगां, मध्ये घटितानां तारकाणां विवरणं तथा प्रसारयत्यस्माकं दृष्टिदिगन्तं विश्वोत्पत्तिसम्बन्धे-कथं वयं, के वयं, किमस्माकमन्तिमं लक्ष्यम् । सः निगदति
"I work on intuition thinking that an idea ought to be right. Then I try to prove it".1 (क)
सः पुनः प्रतिपादयति
"It is quite possible that God acts in ways that cannot be described by scientific laws, as we know them today.” (ख)
[(Stephen Hawking's Universe-John Boslough, Avon Books, New York. 1989)]
यदि सूक्ष्मतया निरीक्ष्येत तर्हि अस्याधुनिकविज्ञानस्य प्रारम्भोऽप्याध्यात्मिकः, सहजातस्तथा भूयोदर्शनपेतश्च । अनुमानं प्राथमिकं, तदनन्तरं तर्कस्तत: तथ्यम् । स्थूलतः वैदिकसंहितास्वाधुनिकं वस्तुविज्ञानं सन्निहितं वर्तते यस्य सूक्ष्मेक्षिकं निरीक्षणमावश्यकम् । यद्यपि वैदिकविज्ञानमात्मप्रधानं तथापि उच्चतरज्ञाने निम्नांशा अन्तर्भाविताः सन्ति । वैदिकज्ञानमिदानीमपि रहस्यविद्येति उच्यते । अतोऽस्य रहस्योन्मोचने यदि वयं विज्ञानमनुसन्धिष्यामः तर्हि वैदिकसांकेतिकविवरणस्य समुचितार्थकरणमावश्यकम् । ३. वेदव्याख्याने भिन्नता
वेदस्य विज्ञानभित्त्या भाष्यरचनयैव विज्ञानमुद्घाटितं स्यात् । वैदिकमन्त्राणां व्याख्यानं न तथैव सरलतरं कार्यम् । पुनः प्रतिव्यक्तिं दृष्टिरपि परिवर्त्तते । यदा वेद अपौरुषेयस्तथा नित्यः तथा पुनः ऋषयः मन्त्रद्रष्ट्रार इति भारतीयविचारस्तदा कथं मन्त्राणां यथार्थार्थाः सम्भाविताः स्युः ? यतः मन्त्रार्थकर्तापि मन्त्रदर्शनक्षमतां प्रत्युन्नीत: स्यात् । मन्त्राणां यथार्थोऽर्थः तत्रैव निहितोऽस्ति । बहुप्राच्यपाश्चात्यविद्वांसः वेदव्याख्यानानि कृतवन्तः दृश्यन्ते । भारतीयपरम्परायान्तु मन्त्राणां व्याख्यानं प्रायतः ब्राह्मणग्रन्थेभ्य एव प्रारभते ।
धर्मीयविश्वासानां, याज्ञिकानुष्ठानानां, सांस्कृतिकपृष्ठभूमेश्च यथार्थस्वरूपज्ञानाय मन्त्रार्थज्ञानमावश्यकम् । परन्तु मन्त्राणां बहुविधव्याख्यानेषु सामान्यजन: कदाचित् संशयास्पदः भवति । ऐतिहासिक-नैदान-नैरुक्तपरिव्राजक-याज्ञिक-वैयाकरणाः एवं बहुविधवेदव्याख्याकाराः प्राप्यन्ते । स्वस्वव्याख्यानेषु तत्तत् मतानां प्राधान्यं वर्त्तते ।
आधुनिकवेदव्याख्याकाररूपेण श्रीअरविन्दः महर्षिदयानन्दश्च परिचितौ । श्रीअरविन्दस्य