SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ वैदिकसूक्ते निउटन्नियमानां सांकेतिकरूपम् पराम्बा श्रीयोगमाया १. उपक्रमः ___'वेदे विज्ञानं' स्थूलदृष्ट्या पारस्परिकविरोधितं शब्दद्वयमिति प्रतीयते । शास्त्रीयार्थे यदि 'विज्ञान' शब्दस्यात्र विशिष्टज्ञानार्थे ग्रहणं स्यात् तर्हि विषयस्य परिचर्यायै नास्ति काचित् बाधा । परन्त्वाधुनिकविज्ञानार्थेऽत्र समस्या वर्त्तते । 'किं नामाधुनिक विज्ञानं' तथा 'किं नाम वैदिकविज्ञानम्' ? एतयोर्मध्ये वर्त्तते किञ्चित् सामञ्जस्यं न वा ? यदि वर्त्तते तर्हि कुत्र तथा कथम् ? किमाधुनिकवैज्ञानिकतथ्यानां प्रत्यक्षोपलब्धिः वैदिकमन्त्रेषु भवति न वा ? यथार्थेनाधुकिनवैज्ञानिकतथ्यानां प्रत्यक्षोपलब्धिः वेदे नास्तीति । (क) वैदिकाधुनिकविज्ञानयोः भेदः वैदिकविज्ञानं तथाधुनिकविज्ञानमित्येतयोः मध्ये महानन्तरः । सम्प्रति विज्ञानस्य परिभाषा भवति'प्रकृतेः व्यवहारवस्तुगतस्य तथा पदार्थजगतः ज्ञानं यदधिगतं भवति पर्यवेक्षणेन, परीक्षणेन तथा मूल्यायनेन, तत् पुनः प्रमाणितं तथा सत्यापितं भवेदिति । परन्तु वैज्ञानिकं पर्यवेक्षणं केवलं वस्तुनिष्ठपद्धत्या एव क्रियते यस्यान्तर्भुक्तिः पञ्चविधेन्द्रियलब्धज्ञाने भवति । अतः विज्ञानशब्दनेदानी पदार्थविज्ञानं, रसायनविज्ञानं, जीवविज्ञानं, ज्योतिर्विज्ञानम्, गणितविद्येत्यादयः विषयाः, गृहीताः सन्ति । परन्तु वैदिकसाहित्ये विज्ञानशब्देन ज्ञानस्य विशिष्टांशत्वेन सर्वातिशायिनी अध्यात्मविद्या एव स्वीक्रियते । आधुनिकविज्ञानीनां या दिक्, दृष्टिस्तथा यदभिलक्ष्यं, न तदेवासीत् वैदिकऋषीणाम् । यतः समयः भिन्न आसीत्, अत आवश्यकतापि । सामग्रि कविकाशस्तु उभयत्राभिलक्ष्यमासीत् । परन्तु भौतिकविकाशाय यथाधुनिक विज्ञानं तथैवात्मिकोन्नतयेऽध्यात्मविज्ञानस्यानुभवः आवश्यकः । मन्त्रद्रष्टुणामृषीणां कृतेऽऽत्मिकोन्नतिरेव प्रधानविषयभूतासीत् । अत अध्यात्मिकविकाशं दृष्टौ निधाय तैः ज्ञानस्यान्तिमसोपानं विज्ञानरूपेण प्रदर्शितम् । वस्तुगत अथवा भौतिकविकाशः तदानीं नगण्य आसीत् । अतः भौतिकविज्ञानस्य यद्यपि वेदेषु नास्ति आधुनिकविज्ञानदृष्ट्या परिचर्चा तथाप्याधुनिकी बौद्धिकी जिज्ञासा (modern intellectual quest) स्वाभाविकी तथानुसन्धानात्मिका । २. वैदिकवाङ्मये आधुनिकविज्ञानस्योन्मेषबिन्दुः आधुनिक विज्ञानं केवलं पञ्चाशदधिकं त्रिंशत् वर्षपुरातनम् । वैज्ञानिकस्य Gallilio महोदयस्य
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy