SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 116 पराम्बा श्रीयोगमाया - SAMBODHI गतिप्राप्ताः ग्रहाः यदि नैरन्तर्येणापरेण केनचित् बलेन तत्प्रति आकर्षितं न स्यात् तर्हि तेषां मार्गः सरलः स्यात् । परन्तु सूर्यस्य गुरुत्वबलं गतियुक्तान् ग्रहान् सदैव आ समन्तात् समाकर्षति यस्मादेव कारणात् तेषां कक्षाः (orbit) वृत्ताकारा अथवाण्डाकाराः (elliptical) । (ग) गतिनियमेन जागतिकतत्त्वानि व्यवस्थितानि सविता हिरण्मयेन रथेनायाति । अभिप्राय एष यत् सूर्यः पीतकान्तियुक्तस्तथा प्रकाशयुक्तः । एषः भुवनानि पश्यन् अर्थात् , सर्वान्नेव ग्रहान् स्वप्रकाशेन प्रकाशितान् कृत्वायाति । यथा पृथिवी जनान् धारयति तथैव सूर्यः स्वस्याकर्षणबलेन पृथिव्यादिलोकान् धारयति । एवंरूपेण जागतिकतत्त्वानि अन्तरीक्षे अनायासेन विधृतानि सन्ति, नो चेत् अतीवभारयुक्तलोकानां स्वपरिधाववस्थानमसम्भवं स्यात् । पुनः ग्रहाणामथवा लोकानां परिक्रमणं विना क्षण-मुहूर्त-प्रहर-दिवा-रात्रि-पक्ष-मास-ऋतु-संवत्सरादीनां कालावयवानां समुत्पन्नं नैव शक्यमभूत् । ५. निउटन्महोदयस्य द्वितीयनियमस्य सङ्केतः (क) गतितत्त्वस्य द्वितीयः नियमः कस्यचित् वस्तोः वस्तुत्वपरिवेगयोः परिमाणः तत्प्रति प्रयुक्तस्य बाह्यबलस्य परिमाणेन सह समानस्तथा तस्य परिणतिः तस्यामेव दिशि भवति यस्यां बलस्य प्रयुक्तिः । ___Newton's 2nd Law- The rate of change of momentum is proportional to the applied force and takes place in the direction in which the force acts.2 प्रथमनियमद्वितीयनियमयोः पारस्परिकसम्बन्धः वर्तते । प्रथमनियमः यदा बलस्य सज्ञां ददाति तदा द्वितीयनियमः बलस्य परिमापं प्रस्तौति । द्वितीयनियमस्य प्रायोगिकं प्रमाणं तु महाविस्फोटात् विशालविश्वस्य प्रसार इति वक्तुं शक्नुमः । ६. निउटनमहोदयस्य तृतीयनियमस्य सङ्केत: दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पर्याय (ऋक्-१०.२७.१६) अर्थात्, दशानां (ग्रहाणां) समरूपेणैक एव संचालकत्वेन कपिलः वर्तते । (ते) तं यज्ञस्य पूर्णतायै प्रेरयन्ति । (क) विशेषार्थः 'कपिल' शब्दः ‘कपि' (चलने) धातुतः निष्पन्नः भवति, उणादिकोशानुसारं कामयतेऽसौ कपिलः। गतीच्छेति अर्थद्वयं कपिलं सञ्जालक इति सिध्यति । शब्दकोशेऽपि सूर्यस्य कृते 'कपिलद्युति' शब्दः प्रयुक्तोऽस्ति । अतोऽत्रापि 'कपिल' शब्दस्यार्थः सूर्य इति । पुनः स एव सूर्यः दशग्रहाणां संचालक इति । 'क्रतु' शब्देन यज्ञार्थोऽभिप्रेतो भवति । सूर्यस्य परितः ग्रहणां परिक्रमणमेकस्य यज्ञस्य प्रारूपं नयति । यज्ञस्य
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy