SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 93 Vol. XXVIII, 2005 वर्तमानकाले संस्कृत-साहित्यस्य राजकीयक्षेत्रे उपादेयता निरुपितोऽस्ति । अस्य तात्पर्यमेतदस्ति यद् राज्ञो महत्त्वं देवतुल्यमस्ति । अतः तस्य कार्याण्यपि देवसदृशानि शिवकराणि भवेयुः । देवांशिराज्ञः सिद्धान्तानुसारेम कालान्तरे क्षत्रियराजपरिवारैः स्वसम्बन्धः सूर्यवंशेन चन्द्रवंशेन सह मानित इति डॉ. पी. वी. काणेमहोदयाः कथयन्ति । ईदृशैः कारणैः संस्कृतनाट्यषु राज्ञे 'देव' इति सम्बोधनं भवति । सर्वेऽपि राजाज्ञां वशवर्तिनो भवेयुरिति विचारेण राजा देवसदृशो गणितः । एकतो धर्मशास्त्रपुराणादिशास्त्रैः राज्ञे देवसदृशं सर्वोच्चस्थानं दत्तं तथापि अन्यतः कुत्सिवकर्माणं राजानं सिहासनभ्रष्टकरणाय व्यवस्थाऽपि प्रदर्शिताऽस्ति । मत्स्यपुराणे उक्तं यद् बहवो राजान औद्धत्यभ्रष्टाचारवशात् अनुचरस्वजनैः सह राज्यात् निष्काषिता नष्टाश्च । अनेकै तिवनियसम्पन्नैः स्वामिभिविनयेन पुनः राज्यश्री: सम्पादिता - बहवोऽविनयाद् भ्रष्टा राजानः सपरिच्छदाः । . वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥ (मत्स्य पु. २१५/५३) सर्वाधिकारिराजा यदि अनियंत्रित उच्छृखलो भवेत्तर्हि राष्ट्र प्रजायां च अत्याचारस्याराजकतायाः साम्राज्यं प्रसरेत् । ईदृशं न स्यात् तदर्थं पुराणानि राजानं वध्योऽपि मन्यन्ते । शुक्रनीतिसारे उक्तं यद् यो राजा प्रजां पीडयेत् धर्मभ्रष्टकारणं भवेद् वा सोऽवश्यं राक्षसानां अंशभूतोऽस्ति । मनुस्मृतौ (७/१११-११२) कथितं यद् यो राजा प्रजापीडनं करोति सो जीवनपरिवारराज्यभ्रष्टो भवति । अधर्माचरणकर्तु राजावेनस्य ब्राह्मणऋषिभिः संहारोऽभवदिति कथा भागवतादिपुराणेषु प्राप्यते । एतेन स्पष्टं भवति यत् आधुनिकराजकीयक्षेत्रस्य परिष्कारार्थमपि धर्मशास्त्रपुराणपरिशीलनं राजुपुरुषैरनिवार्यम् भवति । पुराण-धर्मशास्त्रेषु राज्ञोऽधिकाराणामपेक्षया तस्य कर्त्तव्यकर्माण्योपरिविशेषो भारो निक्षिप्तोऽस्ति । कतिपयेषु स्थानेषु राजा प्रजायाः सेवकरूपेण निरूपितोऽस्ति । राजा तु सर्वशास्त्रेषु निपुणः स्यात् । धर्मशास्त्रपुराणग्रन्थेषु कथितं यद् राज्ञा आन्वीक्षिकी (सांख्यादिः), त्रयी (वेदत्रयी), वार्ता (कृषि-पशुपालनं वाणिज्यं च) दण्डनीतिरिति विद्याचतुष्टयी अध्येतव्या। अग्निपुराणेऽप्युक्तं यद् राजकुमारं धर्मार्थकामशास्त्राणि धनुर्वेदं च शिक्षयेत् राजपुत्रस्य रक्षा च कर्तव्या पृथिवीमृता । धर्मार्थकामशास्त्राणि धनुर्वेदं च शिक्षयेत् ॥ (अग्नि. २२५/१) मत्स्यपुराणकारोऽपि कथयति यद् राज्ञा वेदविद्भ्यो वेदत्रयी-दण्डनीतिरान्वीक्षिकात्मविद्याः सम्पादितव्याः, लोकतो वार्ताज्ञानं प्राप्नुयात् च । त्रैविधेभ्यस्त्रयी विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी त्वाम्भविद्यां वारिम्भाञ्च लोकतः (मत्स्य. २१५/५४) - धर्मशास्त्रपुराणेषु राज्ञः सद्गुणसूचिः प्राप्यते । मत्स्यादिपुराणेषु विधानमस्ति यद् राजा तु अरिषड्वर्ग (कामक्रोधमदलोभान्) त्यजेत् । (२२०/१४) विभिन्नपरिस्थितिसन्दर्भ राज्ञो व्यवहारः कीदृशः स्यात् इति विषये मत्स्यपुराणे (अ. २१५) निरूपितं यद् राजा तु बकवत् चिन्तयेत्, सिंहवत् पराक्रमेत्, शूकरवत् दृढं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy