________________
94
मणिभाई ई. प्रजापति
SAMBODHI
प्रहरेत, सदैव च काकवत् सतर्को भवेत् । राजा तु शिखिवत् चित्राकृतिः, श्वानवत् अनन्यभक्तः, पिकवत् मृदुभाषी स्यात् ।
धर्मशास्त्रपुराणादिग्रन्थेषु राज्ञः कर्तव्यानि निर्दिष्टानि । तानि सन्ति (१) प्रजाया रक्षणं पालनं च, (२) वर्णाश्रमधर्मस्य रक्षा, (३) दुष्टेभ्यो दण्डप्रदानम्, (४) न्याय्याचरणञ्च ।
संग्रामेष्वनिवर्तितव्यं प्रजानां परिपालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां निःश्रेयसं परम् ॥
वर्णाश्रमव्यवस्थापन तथा कार्यं विशेषतः ॥ (मत्स्य. २१५/६१-६२) अतः परं राज्ञः परमं कर्तव्यमस्ति यत् सः तु छात्रान्, विदुषः, ब्राह्मणान् याज्ञिकान् च परिपालयेत् । मत्स्यपुराणे (२१५/५८) अग्निपुराणे (अ. २२३) च स्पष्टरूपेणोक्तं यद् यस्य राज्ञः राज्ये विद्वांसो वैज्ञानिका वेदज्ञाश्च बुभुक्षिताः, तस्य राज्यं व्याधि-दुष्काल-तस्करैश्च नश्यति । अतो विद्यामाचारं च परीक्ष्य राज्ञा तेषाभाजीविकायाः प्रबन्धः कर्तव्यः । राजा असहाय-वृद्धांध-विधवादीनां योगक्षेमं परिकल्पयेत् - .
कृपणानाथवृद्धानां विधवानां पालनम् ।
योगक्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥ (मत्स्य. २१५/६२) जलाशय-सभाभवन-मन्दिरादीनां निर्माणकार्य राशः कर्तव्यं मानितम् । मार्कण्डेयपुराणे (१३०/३३४०) मातामही राजानां कथयति-राज्ञः शरीरं न तु आनन्दप्रमोदाय, किन्तु कर्तव्यपालनाय, पृथिवीरक्षणाय, कष्टसहनाय च निर्मितमस्ति ।
राज्ञा न तु भाग्यस्य किन्तु पुरुषार्थस्यावलम्बनं कर्तव्यमिति प्रबोधोऽग्निपुराणे श्रूयते । सर्वाणि कर्माणि खलु भाग्यपुरुषार्थाधीनानि; यतस्तस्मिन् दैवोऽचिन्त्यः, किन्तु पुरुषार्थे क्रिया भवति । राज्ञो राज्यमहीश्रियः प्रजानुरागप्रभवाः ।
सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे ।। तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ।
जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ॥ (अग्नि. २२५/३३) राष्ट्रीयतायाः सम्बन्धः शासनव्यवस्थया राजनीत्या वा वर्तते, अतो राष्ट्रीयभावनायाः चर्चाऽपि अत्र अपेक्षिताऽस्ति । डा. पी. वी. काणेमहोदयेन प्राचीनभारतस्य राष्ट्रीयताविषये यत् कथितं तत्तु चिन्त्यम् । धर्मशास्त्रस्य इतिहासे काणेमहोदयाः निरूपयन्ति यत्-"प्राचीनभारते आधुनिक्या राष्ट्रीयताया भावना नाऽसीत् । ग्रन्थकारैः राज्यस्योल्लेखः कृतः राष्टं च तस्यैकं तत्त्वं स्वीकृतम्, किन्तु तेषु लोकेषु राष्ट्रीयभावनायाः पूर्णाभावो वर्तते स्म । तैलौकैः राष्ट्रैक्यार्थं न कोऽपि प्रयत्नः कृतः ।" एतद्विपरीतं वयं कथयितुं समर्था यत् प्राचीनमध्यकालीनभारते राष्ट्रीयभावनायाः प्रादुर्भावोऽभवत् । तत्समर्थनाय विपुलमात्रायां पौराणिकी-सामग्री संस्कृतसाहित्ये प्राप्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org