________________
Vol. XXVIII, 2005
वर्तमानकाले संस्कृत-साहित्यस्य राजकीयक्षेत्रे उपादेयता
95
वस्तुतो राष्ट्रस्य प्रशासनिकसुव्यवस्थार्थं सुरक्षा-संरक्षणार्थं च पुराणादिग्रन्थेषु राजधर्मस्य राजनीतेर्वा निरूपणं कृतमस्ति । पुराणेषु भारतभूमेविभिन्नरूपेण प्रशस्तिपरकं वर्णनं समुपलभ्यते । पुराणकाराः स्वराष्ट्रस्याखण्डतां स्वसौभाग्यं च देशभङ्गं दुर्भाग्यं च मन्यन्ते । कुलहीनां परपुरुषकामायमानां पत्नी दुव्यसनी पुत्रं च दृष्ट्वा यथा दुःखमुत्पद्यते तथैव दुःखस्यानुभूतिः प्रदेशस्य छिन्नभिन्नस्थित्यां सञ्जायते इति गुरुडपुराणेऽप्युक्तम् -
धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम् ।
परचित्तगतान्दारान् पुत्रं दुर्व्यसने स्थितम् ॥ (गरुड० पूर्व० ११५/३) पौराणिकपात्रेभ्यो राजधर्मस्य राजनीतेरुपदशोऽन्ततोगत्वा राष्ट्रसंरक्षणायैव । राष्ट्रसमृद्धिकारकस्य प्रजातुष्टिपुष्टिकारकस्य राष्ट्रनायकस्य पुराणकाराः प्रशंसां कुर्वन्ति । राष्ट्ररक्षार्थं समृद्धिप्राप्त्यर्थं च विप्रैरुच्यार्यमाणमोंकार शब्दं प्रति आस्था प्रकटिताऽसीत -
ओंकारशब्दो विप्राणां येन राष्ट्र प्रवर्धते ।
स राजा वर्धते योगाद् व्याधिमिश्च न वध्यते ॥ (गरुड. पूर्व. १११/१५) राज्ञः राजधर्मान्तर्गतानि कर्तव्यान्यपि धर्मशास्त्रीयग्रन्थेषु प्राप्यन्ते । अत्रिसंहितायां राज्ञो मूलभूतानि यज्ञस्वरूपाणि कर्तव्यानि दर्शितानि -
दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोषस्य च संप्रवृद्धिः । . अपक्षपातोऽर्थिषु राष्ट्ररक्षा
पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ राजधर्मानुसारं राजा नास्ति सत्ताप्रदर्शनाय, किन्तु सः तु केवलं प्रजाकल्याणाय व्रतधारी भवति । राजधर्मस्येदं तु नवनीतं सत्त्वं तत्त्वं वा । राजधर्मद्वारा राज्ञः कर्माणि सुनियंत्रितानि भवन्ति । राजत्वमासीत् सर्वे कारस्वरूपं, प्रजाप्रभुताऽसीत् तस्याधारशिला । कौटिल्यस्यार्थशास्त्रे राज्ञ आदर्शभूतं स्वरूपं ईदृशं निरुपितम् -
प्रजासुखे सुखं राज्ञ प्रजानां च हिते हितम् ।
नात्मप्रिये हितं राज्ञ प्रजानां तु प्रिये हितम् ॥ महाभारतस्य शान्तिपर्वेऽप्युक्तं यत् धर्माय राजा भवति न कामरमणाय तु ।
महाभारतस्यायमुपदेशः साम्प्रतकालेऽप्युपादेयो भवति । यतोऽद्यतनीया मन्त्रिण राजानश्च धर्मानुसारमाचरणमकृत्वा केवलं सत्तासमृद्धिप्राप्त्यर्थं स्वस्यानंदप्रमोदाय स्वमन्त्रित्वं स्वराजत्वं च सुवर्णावसरं मन्यन्ते ।
पक्षपातरहितेन राज्ञा तु सर्वान् प्रति समानव्यवहारः कर्तव्यः समानरक्षा कर्तव्या च इति मनुस्मृतिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org