SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 96 (९-३१) प्रबोधयति - नारदस्मृतिरपि इत्थं कथयति यथा सर्वाणि भूतानि धरा धारयते समम् ॥ तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ मणिभाई ई. प्रजापति पाषण्डनैगमश्रेणीपूगव्रातागणादिषु । संरक्षेत्समं राजा दुर्गे जनपदे तथा ॥ एतेन ज्ञायते यदस्मिन् भारतवर्षे वेदान् प्रति सन्मानभावनाऽसीत् । तथापि ये जना वेदान् न मन्यन्ते स्म तान्प्रत्यपि सन्मानभावनया वर्तेत । इयं तु भारतवर्षस्यासाम्प्रदायिकता धर्मस्येदं तु सारभूतं तत्त्व च । धर्मराज्यस्य नियमो वर्तते स्म यत् राजदृष्टया सर्वे नागरिकाः समानाः समानाधिकारिणः सन्ति । Jain Education International पुराणादिग्रन्थेषु वर्णिते राजधर्मे पट्टाभिषेकस्य महत्त्वपूर्ण स्थानं वर्तते । राज्याभिषेकः संस्कारो मन्यते स्म । महाभारते राज्याभिषेकावसरे राजा वैन्यः प्रतिज्ञावचनानि यदुच्चारयति तत्तु राज्याभिषेकस्य पावित्र्यं प्रकटयति, राजधर्मस्य सारतत्त्वं राजकीयपुरुषान् प्रबोधयति, कर्त्तव्यं प्रति प्रेरयति च - प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा । पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥ यश्चात्र धर्मो नित्योक्तो दण्डनीतिव्यपाश्रयः । तप्तशङ्कः करिष्यामि स्ववशो न कदाचन ॥ (महा. शान्ति ५९, १०६ - १०८) राज्याभिषेकविधिः खलु दीक्षाऽसीत् । मुकुरधारिराजा प्रजापालनार्थं व्रती भवति । कामन्दकीयनीतिसारे कथितं यद् राज्याभिषिक्तो राजा सर्वभयेभ्यः प्रजायै अभयवचनं ददाति प्रजानां पञ्चधा भयम् । पञ्चप्रकारमप्येतदपोह्यं नृपतेर्भयम् ॥ ( कामन्दक. ५. ८२-८३ ) ...... SAMBODHI राजा सदैव कस्यापि प्रजाजनस्यान्यायदूरीकर्ताऽसीत् । अस्मिन् विषये एक उज्ज्वलो दृष्टान्तो राजतरङ्गिण्यां प्राप्यते । काश्मीरदेशस्य राज्ञः चन्द्रापीडस्य अधिकारिणः दरिद्रचर्मकारस्य कुटिरं दूरीकर्तुं निर्णितवन्तः, किन्तु चन्द्रापीडेन तस्य चर्मकारस्य रक्षा कृता । तेनाधिकारिणां निर्णयमपि तिरस्कृत्य दरिद्ररक्षणकार्यं कृतम् । मन्त्रिणः कीदृशा भवेयुः ? अस्मिन् विषयेऽपि अर्थशास्त्रीयग्रन्थेषु चर्चा प्राप्यते । राजधर्मनिर्वहणार्थं सचिवानां नियुक्तिरनिवार्याऽसीत् सहायसाध्यं राजत्वं चक्रमेकं न वर्तते । कुर्वत सचिवांस्तस्मात् तेषां च शृणुयान्मतम् ॥ ( कौ. अर्थ. पृ. १२) For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy