SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Vol. XXVIII, 2005 वर्तमानकाले संस्कृत-साहित्यस्य राजकीयक्षेत्रे उपादेयता कौटिल्यस्यार्थशास्त्रेऽमात्यस्य योग्यतालक्षणान्यपि वर्णितानि - जानपद: अभिजातः स्वाग्रह: कृतशिल्पः । चक्षुष्मान् प्राज्ञः धारयिष्णुः दक्षः वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साहप्रभावयुक्तः क्लेशसहः शुचिः मैत्रः दृढनिश्चयः शीलबलारोग्यसत्त्वरसंयुक्तः स्तम्भचापल्यवर्जितः संप्रियः वैराणामकर्ता इति अमात्यसंपत् । (कौ. अर्थ. पृ. १४) मनुस्मृतिरपि अमात्यस्य योग्यतालक्षणानि दर्शयति - मौलान् शास्त्रविदः शूरांलब्धलक्षान् कुलोद्भवान् । सचिवान् सप्तचाष्टौ वा कुर्वीत परीक्षितान् ॥ (७-५४) राज्ञः परस्वादायिनः शठाः रक्षाधिकृताः खलु तिरस्कार्या एव - राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।। भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ ये कार्यिकेभ्योऽर्थमेव गृणीयुः पापचेतसः । तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ (मनु. ७/१२३-१२४) राज्ञः सेवकानां प्रजां प्रति कीदृशो व्यवहारो योग्य इति विषयेऽपि कथितम् नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन्ह्यात्मनो मूलमात्मानं ताश्च पीडयेत ॥ तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥ (मनु. ७/१३९-१४०) आधुनिकसमये एतानि लक्षणानि समवेक्ष्यामात्यनिर्वाचनं भवितव्यम् । अर्थशास्त्रीयग्रन्था अस्मिन्विषये. प्रेरका भवितुर्महन्ति । सज्याभिषेकमन्त्रेषु राष्ट्रस्य चेतनाचेतनतत्त्वेभ्यो राज्ञः संरक्षणस्य कामना प्रकटिता । स्वराष्ट्रस्यांतरिकव्यवस्थाविषये शत्रुपराक्रमसमये रक्षणकार्यविषये सुदृढसर्वविधसैन्यव्यवस्थारणदीक्षाविषये च तत्र उपदेश प्रदत्तः (अग्नि. अ. २१८, २४२; मत्स्य. २१४/२२६) । स्वराष्ट्र समृद्धं न कृत्वा यो राजपुरुषो राष्ट्रनायको वा व्यक्तिगतसमृद्धिः सुखशान्ति च इच्छति, राष्ट्रोपेक्षां करोति च, तेन राज्ञा कृतानि सर्वाणि यज्ञानि तपांसि व्यर्थानि कथितानि पुराणादिग्रन्थेषु । यथा - ___किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः । सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥ अग्निपुराणे (२२३/७) तु स्पष्टरूपेणोक्तं यद् राष्ट्रपीडाकरो राजा नरके वसति चिरम् । प्रजाभ्यः करग्रहणमपि राज्ञावधानपूर्वकं कर्तव्यम् । यथा भ्रमरः पुष्पं न पातयित्वा परागग्रहणं करोति, तथैव राज्ञाऽपि * प्रजानां पीडा न स्यात् तथा करग्रहणं कर्त्तव्यमिति गरुडपुराणवचनम् - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy