________________
मणिभाई ई. प्रजापति
मधुपेव दुहेद् राष्ट्रं कुसुमं न पातयेत् ।
वत्सापेक्ष दुहेत्क्षीरं भूमिं गां चैव पार्थिवः ॥ (गरुड. पूर्व. ११३ / ५) भारतवर्षस्याध्यात्मिकसंस्कृतेर्रक्षणार्थं राजभिः संस्कृतिविरोधि- दैत्य-दानव - म्लेच्छादिभिरनेकाः संग्रामाः कृताः सन्ति । एतादृश्योऽनेकाः कथाः प्राप्यन्ते अस्माकं पुराणकाव्यादिग्रन्थेषु ।
98
कविकुलगुरू कालिदासस्य रघुवंशमहाकाव्ये रघुवंशीयानां राज्ञां चरित्रस्य वर्णनव्याजेन महाकविना तेषां धर्मानुकूलं राज्यशासनं प्रदर्शितमस्ति । रघुवंशस्य प्रारम्भिकपद्येष्वेव कविना सविस्तरं रघुवंशीयानां चरित्रं वर्णितमस्ति यत्तेषां चरित्रं धर्मशास्त्रानुकूलमस्ति ।
यथा तत्रोक्तम् -
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥ त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धक्ये मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ (रघु. १/६-८)
रघुवंशीयः राजा दिलीपः कीदृश आसीत् ? कालिदासो वर्णयति यत् स राजा दिलीपः प्रजानां वृद्ध्यर्थमेव प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्, यथा रविः सहस्रगुणं दातुं रसं जलं गृह्णाति । तस्य बुद्धिः शास्त्रोष्वकुण्ठिताऽसीत् । तस्य शौर्यमपि नीतिपुरःसरमेवासीत् । दिलीपः खलु प्रणानां यथार्थः पिताऽसीत्
Jain Education International
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥
SAMBODHI
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ (रघु. १/२४-२५)
कविः प्रदर्शयति यद् रघुवंशीयानामर्थकामावपि धर्मवदेव आस्ताम् ।
धर्मशास्त्रीयग्रन्थेषु प्रस्तुता राजनीतिसिद्धान्ताः पुराणेषु कथामाध्यमेन विशदीकृताः । धर्मस्वरूपेण राजनीतेः प्रस्तुतीकरणं तु पुराणादिग्रन्थानां विशिष्टं प्रदानमस्ति । इदं तु आधुनिकराजकीयकार्येषु प्रेरणास्पदं भवितुमर्हति ।
अतः निष्कर्षभूतं तथ्यमिदमेव यद् भारतीयसंस्कृतिशेवधि, राजनीति - राजधर्मसंवलितं मानवहितसम्पादनक्षमं धर्मशास्त्रपुराणसाहित्यं अधुनाऽपि राजकीयक्षेत्रे सदैवापेक्षणीयं महत्त्वपूर्णं च वर्तते । सर्वे तथा वर्तेरन् यथा तस्योपेक्षा न भवेत् ।
For Personal & Private Use Only
www.jainelibrary.org