________________
92
___ मणिभाई ई. प्रजापति
SAMBODHI स्वाम्यामात्यौ जनपदो दुर्गं दण्डस्तथैव च ।
कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ (मत्स्य. २२०/१९) सर्वातिशायिमहत्त्वपूर्णमङ्गमस्ति राजा स्वामी वा । स्वाम्याधारितानि षडङ्गानि । अत एव मत्स्यपुराणं राजानं राज्यस्य मूलं एतेषु सप्ताङ्गेषु कथयति । यथा मूलं रक्ष्यं तथैव राजाऽपि रक्ष्यः ।
सप्ताङ्गस्य राज्यस्य मूलं स्वामी प्रकीर्तितः ।
तन्मूलत्वात् तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥ (मत्स्य. २२०/२०) अस्मिन् तस्मिन् वा प्रदेश राज्ञ आवश्यक्ता कथमुपस्थिता शासनव्यवस्थाया उद्भवः किमर्थं केन कारणेन वा सञ्जात इति विषये उत्तरं तु राजनीति-पुराणग्रन्थेषु प्राप्यते । अस्य सम्बन्धो दण्डेनास्ति, अतो राजनीतेरपरनामधेयमस्ति 'दण्डनीतिः' । मनुस्मृत्यनुसारं मात्स्यन्यायेन यदा अराजकता प्रसृता तदा नियंत्रणाय दण्डस्य राज्ञो वा आवश्यकता उपस्थिता । फलस्वरूपेण दण्डस्वरूपो दण्डधारिराजा वा राजा समागतः । मात्स्यन्यायेनामिभूतैर्जनैर्मनुवैवस्वतः स्वराजा कृतः इति पुराणानि कथयन्ति । मत्स्यपुराणे (अ. २२५) तु दण्डनीतेर्महिमागानमस्ति । राजा तु दण्डधरो यतः सः तु अनियंत्रितजनान् नियंत्रयति वशीकरोति वा । अभद्रान् अनीतिकर्तृन् च दण्डितान् करोति -
यस्माद् दण्डो दमयति दुर्मदान् दण्डयत्यपि । दमनाद् दण्डनाच्चैव तस्माद् दण्डं विदुर्बुधाः ॥ (मत्स्य. २२५/१७)
दण्डशक्तिय॒ष्टिं राष्ट्रं च धर्मसीमायां धारयति, दण्डयान् दण्डयति, सर्वस्य कल्याणं विस्तारयति च । ईदृश्या भावनया दण्डधारिणो राज्ञः प्रथा अस्तित्वमागता स्यात् ।
धर्मशास्त्रपुराणादिपरिशीलनेन ज्ञायते यद् यस्मिन् शासनं कर्तुं प्रजाया रक्षां कर्तुं क्षमता स्यात् सः कोऽपि ब्राह्मणो वा क्षत्रियो वा राजा भवितुमर्हति इति मन्यते स्म ।
धर्मशास्त्रीयग्रन्थाननुसृत्य पुराणान्यपि राजानं देवस्वरूपं देवांशिस्वरूपं वा दर्शयन्ति । भागवत (४/१२/२६-२७), अग्नि (२२६/१७-२०), मार्कण्डेय (२७/२१-२६) इत्यादिषु पुराणेषु राज्ञो देवांशानां चर्चा प्राप्यते । मत्स्यपुराणकारः कथयति यद् ब्रह्मणा सर्वभूतादिरक्षार्थं दण्डप्रयोगाय देवेभ्यः अंशान् गृहीत्वा राजा सृष्टः -
दण्डप्रणयनार्थाय राजा सृष्टः स्वयम्भुवा ।
देवभागानुपादाय सर्वभूतादिगुप्तये ॥ (मत्स्य. २२६/१) अग्निपुराणे (अ. २२६) राज्ञः तुलना सूर्य-चन्द्र-वायु-कुबेर-वरुणादिभिः सह कृता । यथा -
धनधारा प्रवर्षित्वाद् देवादौ वरुणः स्मृतः ।
उत्साहमंत्रशक्त्याद्यै रक्षेद् यस्माद्धरिस्ततः ॥ (अग्नि. २२६/२०) तथैव मत्स्यपुराणस्य २२६ तमे अध्याये राजा विविधदेवव्रतधारणकर्ता देवकार्यकर्ता च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org