SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Vol. XXVIII, 2005 वर्तमानकाले संस्कृत-साहित्यस्य राजकीयक्षेत्रे उपादेयता 91 प्राचीनराजनीतिविषयका: कतिपया उल्लेखा अथर्ववेदे प्राप्यन्ते । तत्र राजसभाया लोकसभायाश्च उल्लेखो मिलति । अथर्वपरिशिष्टाथर्ववेदीयकौशिकसूत्रादिषु राजनीतेः चर्चा सञ्जाता । धर्ममिव अर्थशब्दस्याऽपि व्यापकोऽर्थः सञ्जातः । फलतोऽर्थशास्त्रीयग्रन्थेषु राजनीतिविषयोऽपि समाविष्टोऽस्ति । कामसूत्रे (१-१-७) उक्तम् - बृहस्पतेराधिकारिकम् । किन्तु बृहस्पतेरर्थशास्त्रीयग्रन्थोऽधुना नोपलभ्यते । मुक्तिकल्पतरौ बृहस्पतिः सर्वश्रेष्ठराजनीतिज्ञरूपेण मानितः - नीतिबृहस्पतिप्रोक्ता... परा । महाभारत-वनपर्वेऽपि द्रौपदीः कथयति - नीति बृहस्पतिप्रोक्तां भ्रातुर्मे ग्राहयत्पुरा । कौटिल्यार्थशास्त्रं तु राजनीतेः प्रसिद्धो ग्रन्थोस्ति । महाभारते शान्तिपर्वस्यानुशासनपर्वस्यानेकेष्वध्यायेषु भीष्माचार्येण धर्मशास्त्रनिरूपित-राजनीतिविषयकविचाराणां विस्तरेण वैज्ञानिक विश्लेषणं कृतमस्ति । राज्ञा धर्मानुसारेण शासनव्यवहारः कर्तव्य इति तत्र प्रतिपादितम् । अतः परं राजनीतिसम्बन्धि-प्राचीन-ग्रन्थानामाधारेण लिखितेषु उत्तरवर्तिग्रन्थेषु मण्डलेश्वररचितो राजनीतिरत्नाकरः', वीरमित्रकृतः 'राजनीतिप्रकाशः', कामन्दककृतः 'नीतिसारः', नीलकण्ठभास्करकृतः 'नीतिमयूखः', सोमदेवकृतं 'नीतिवाक्यामृतम्', सोमेश्वरकृतः 'मानसोल्लासः,' केशवपण्डितकृता 'दण्डनीति: इत्यादयो ग्रन्थाः प्रसिधाः । एतत्सर्वग्रन्थानां सामग्रीमाकल्य काशीप्रसादजायस्वालेन Hindu Polity नामकोऽभ्यासनिष्ठो ग्रन्थो रचितः ।। ___धर्मोऽर्थः कामश्च इति भारतीयजीवनस्य सारभूतं वर्गत्रयम् । मनुस्मृतिकारः कथयति यद् धर्मपूर्वकं अर्थः कामश्च साधनीयौ, धर्मविजितौ अर्थकामौ परित्यजेत् - धर्मार्थावुच्यते श्रेयः कामार्थों धर्म एव च । __ अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ (मनु. २२२४) बार्हस्पत्यसूत्रमपि कथयति यद् राजनीतेः फलं धर्मार्थकामावाप्तिः । (२-४३) सप्ताङ्गराज्यस्य विस्तरेण चर्चा कृत्वाऽन्ते कामन्दीय उपसंहरति गृहीतमेतन्निपुणेन मन्त्रिणा त्रिवर्गनिष्पित्तिमुपैति शाश्वतीम् ॥ धर्मशास्त्रकाराणां सुस्पष्टं मतमस्ति यद् राज्ये धर्मस्य सर्वोपरिसत्ता वर्तते । राजा खलु धर्मसिद्ध्यर्थं साधनमात्रं च । बृहदारण्यकोपनिषदि कथितं यद् धर्मः खलु राज्ञामपि राजा - तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः । तस्माद्धर्मात्परं नास्ति । अथो अबलीयान् बलीयांसमाशंसते धर्मेण । यथा राजा एवम् । अर्थशास्त्रे धर्मशास्त्रेषु पुराणेषु च राजधर्मस्य प्रमुखाः सिद्धान्ता निरूपिताः (१) सप्ताङ्गराज्यम् (स्वाम्यमात्यो, जनपदो, दुर्ग, कोशो, दण्डो, मित्रम् च), (२) षाड्गुण्यम्, (३) त्रिशक्तिः, (४) उपायाः, .(५) व्यवहाराश्च । पुराणानि सप्ताङ्गं राज्यं दर्शयन्ति - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy