________________
वर्तमानकाले संस्कृत-साहित्यस्य राजकीयक्षेत्रे उपादेयता
मणिभाई ई. प्रजापति
राजनीतिविषयकं धर्मशास्त्रपुराणादि संस्कृतसाहित्यं राजकार्यविषयेषु सर्वकालोपयोगिप्रामाणिकं स्वरूपं भजते । वैदिकवाङ्मयं विश्वमात्रस्य प्राचीनतमं साहित्यमस्ति । तत्र - वेद - धर्मशास्त्र-पुराणादि-ग्रन्थेषु राष्ट्रपरिकल्पनायाः राष्ट्ररक्षायाः राष्ट्राभ्युदयोपायस्य राजकीय क्षेत्र - परिष्कार - संवर्धनादिसम्बन्धितविभिन्नसन्दर्माणाञ्च विस्तृता चर्चा मिलति । राजकर्मसम्बद्धं सर्वमपि स्वरूपजातं राजनीतेः राजव्यवहारस्य वा मौलिकं सिद्धान्तस्वरूपं चात्र निर्दिष्टमस्ति ।
अधुना समग्रेऽपि देशे विशेषतः राजकीयक्षेत्रे भोगवादिसंस्कृतेः साम्राज्यं वर्तते । राज्यलिप्सा, मतवादः, जातिबोधोऽर्थबोधश्च सर्वोपरि विद्यन्ते । अतो नैतिकं प्रदूषणं यत्र-तत्र सर्वत्रावलोक्यते । एतत्कृते राजकीय प्रदूषणनिवारणाय धर्मशास्त्र - पुराणादि - ग्रन्थेषु प्रबोधितं राजचरितं राजधर्मो वा खलु निदानभूतं निदर्शनमिति धर्मशास्त्र - पुराणादि - साहित्यस्योपादेयता ।
भारतीय-सांस्कृतिक-परम्परायां 'धर्मः' शब्द आचारशास्त्रसदृशे व्यापकार्थे प्रयुक्तोऽस्ति । महाभारतकण्वपर्वे (अ. ५९) धर्मस्य परिभाषा तु ईदृशी प्राप्यते
"धारणाद् धर्ममित्याहुर्धर्मो धारयते प्रजाः ।
यत् स्याद् धारणसंयुक्तं स धर्म इति निश्चयः ॥ ( श्लो० ५८ )
माधवाचार्येण पराशरस्मृतिटीकायां धर्मशब्दस्य व्याख्या इत्थं कृता - अभ्युदयनिः श्रेयसे साधनत्वेन धारयति इति धर्मः । महाभारत - शान्तिपर्वे (६० - ७-८) सार्ववर्णिक - धर्मस्य लक्षणानि निरूपितानि
अक्रोधः सत्यवदनं संविभागः क्षमा तथा । प्रजनः स्वेषु दारेषु शौचमद्रोह एव च । आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः ॥
Jain Education International
धर्मस्य अनेकानि स्वरूपाणि सन्ति । तत्र एकं स्वरूपमस्ति राजधर्मः राजनीतिः वा । राजनीतिमपि धर्मपरिवेशे प्रस्तुयाऽस्माकं धर्मशास्त्रकारैः पुराणकारैश्च शासनव्यवस्थायां उदात्ततायाः परिशुद्धेश्च आग्रहः कृतः। तत्तु अद्यतनीयानां राजपुरुषाणामर्थे प्रेरकस्वरूपं मार्गदर्शकस्वरूपं वा भवितुमर्हति । ईदृशैः कारणैः राजधर्मो धर्मशास्त्रीयग्रन्थानां पुराणानां च एको मुख्यो विषयो भवति ।
--
For Personal & Private Use Only
www.jainelibrary.org