________________
62
- डी. जी. वेदिया
SAMBODHI . पारदहरितालयोर्योगात् सुवर्णनिर्माणाय अन्यतरा पद्धतिरपि विद्यते । अर्बुदादितंत्रकल्पग्रन्थेषु सुवर्णनिर्माणे प्राभाविवनस्पतीनां वर्णनं समुपलभ्यते । कृत्रिमसुवर्णनिर्माणे दाक्षायणास्स्त्वस्मिन् मन्त्रभागे प्रसिद्धाः वर्तन्ते ।
मन्त्रस्यास्योत्तरार्धे सुवर्णकङ्कणबन्धनं प्रशस्तम् । अधुना यजमानदम्पत्योः करयोः कङ्कण बन्धनार्थमयं मन्त्रः विहितो वर्तते । पुरोहितैः मन्त्रपठनपूर्वकं सुवर्णकङ्कणाभावे तस्य प्रतीकरूपेण रक्तसूत्रं बध्यते । प्राचीनकाले मणिबन्धे सुवर्णालङ्कारधारणपरम्परा आसीत् । अभिज्ञानशाकुन्तले राजा दुष्यन्तः स्रस्तं स्रस्तं मया प्रतिसार्यते इत्युक्त्वा सुवर्णाङ्गदं प्रतिसारयति । मेघदूतस्य यक्ष: 'भ्रंशरिक्तप्रकोष्ठः' वर्तते । सन्दर्भोऽयं मणिबन्धे सुवर्णकङ्कणधारणमेव सूचयति । दुष्यन्तोऽपि विवर्णमणिकृतम् सन्दर्भेणापि सुवर्णकङ्कणं मणिबन्धे धृतवान्निति सूचितः । अग्निमित्रस्य सुवर्णकटकं करकमलमणिबन्धादाच्छिद्य गौतमः मालविकायै दातुमुद्यतोऽभवन्मालविकाग्निमित्रनाम्नि नाटके । तत्रापि मणिबन्धे कङ्कणधारणमेव सूचितम् । भारतीयनारीभिः सौभाग्यलक्षणरूपेण अलङ्काराः धार्यन्ते । मणिबन्धयोः कङ्काणानि (सुवर्णवलयानि) धार्यन्ते । एतादृशः सुवर्णकङ्कणलयाङ्गदहारादिनां महिमा वर्तते ।
पुरोहितैः यजमानकरे रक्षसूत्रं बद्धते । तान्त्रिकैः रोगनिवारणार्थं प्रेतबाधानिवारणार्थं वा रक्षासूत्रं ध्यानसूत्रं वा रक्तनीलवर्णं सूत्रं बध्यते । रक्तनीलवर्णयोः प्रभावोऽयम् उताहो मन्त्रप्रभावः इति निश्चेतुं न शक्यते । संभवस्तु. प्रभावोऽयं द्वयोवर्णयोर्भवितु शक्यम् । अनुमीयतेऽत्र यद्रक्तनीलपीतवर्णमात्रकं ज्योतिस्वरूपं विद्यते कुण्डलिनीशक्तेः । किमत्र सुवर्णेन कुण्डलिनीशक्तरोजोवृद्धिर्भवति येन सर्वमपि साधयितुं शक्यं स्यादित्यत्र चिन्तनीयं भवति ।
श्रीसूक्तस्य आयुर्वेदाचार्यैधात्वाद्यर्थोऽपि विहितः । तत्रं सुवर्णस्य निर्माणे विविधाः प्रयोगाः संगृहीताः । श्रीसूक्तस्यानन्दकर्दमचिकलीताः ऋषयः स्मृताः । तेषां कुले एषा श्रीविद्या भवेत् यतस्ते इन्दिरासुताः ऋषयः श्रीसूक्तस्यैव । श्रीमालनगरमपि श्रियः निर्माणे समख्यानामावासोऽह्यासीदिति पारीक्षितोपायानेनानुमीयते । भृगोः सुता लक्ष्मीः क्षीरसारगरमन्थनोत्पन्ना पौराणिकै स्मृता । सा कथा तु अग्निना विषेण च सुवर्णनिर्माणपद्धतिद्वयसूचनार्थमेव भवितुमर्हति ।
___ यास्केन हिरण्यस्य यत् निर्वचनं दत्तम् तत्तु हितरमणं हस्तात् हस्तगमनं च सूचयनि अन्यदपि निर्वचनं सूचयितुं शक्यम् यथावा-अस्मिन् शब्दे महाप्राणः 'ह' विद्यते । महती प्राणशक्तिर्हि 'हि' । सा 'रण्या' रमणीया भवति । 'रण्य' शब्दस्तु वेदे रामणिकत्वं द्योतयति । अतः महाप्राणशक्तिस्तु यस्यां यस्मिन् धातौ विद्यते तद्धिरण्यम् । सा एतादृशी शक्ति सर्वेषां कृते भवेदिति प्रार्थये । ॐ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org