SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Vol. xxVIII, 2005 यजुर्वेदे त्रीणि आयूंषि यजूंषि यदा क्षिप्यते तदा जलं हिरण्ययुक्तं स्वच्छं शुद्धं च भवति । तज्जलमपि अतीवोपकारि । आयुर्वेदीयग्रन्थेषु विविधधातूनां एतादृशाः प्रयोगाः जलेषु प्रभावोत्पादनाय विहिताः विद्यन्ते । मन्त्रस्योत्तरार्धे अत एवोक्तम् - स देवेषु मनुष्येषु च कृणुते दीर्घमायुः । योगशास्त्रेऽप्युक्तम् - 'प्राक्तनकर्मभिः' 'जात्यायुर्भोगाः' विधीयन्ते । अतोऽनुमीयते सुवर्णस्थ प्रभावो लिङ्गशरीरेऽपि । यतः ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि परिपुष्टानि जायेरन् । एषः परिपोषः एव जात्यायुभॊगानामुपकारि भवेत् । 'मनुष्येषु' शब्दस्य प्रयोगः मेधावर्धनसूचनायैव यतो विना मेधां नरः मानवः कथं स्यात् । 'मन्' धातुः विचारणे भवति । तर्कविचारस्मरणबुद्धिमतिमेधावृद्धयर्थमेव सुवर्णमतीवोपकारि विद्यते । तृतीयमन्त्रे दाक्षायणानां सुवर्णप्रयोगः सूचितो विद्यते । दाक्षायणैः शतानीकाय सुवर्णस्य प्रयोगः कृतः । हिरण्यस्य कङ्कणं मणिबन्धे बद्धम् । तेन तेनायुर्विजयादिकं सौभाग्यं प्राप्तम् । अत्र दाक्षायणानां कुले सुवर्णनिर्माणप्रयोगविज्ञानमासीदिति सूचितं वर्तते । तैः शरणागताय वाराणसीराज्ञे शतानीकाय सुवर्णकङ्कणबन्धनेन महत् सौभाग्यं सुलभतया दत्तम् । इत्यत्रैतिहासिकं सत्यं निहितम् । दाक्षायणाः कथं सुवर्णस्य निर्माणे प्रभवन्तिति न ज्ञायते । तेषां प्रयोगपद्धतिस्तु नष्टैव । सुवर्णस्यैकः प्रकार: पैप्पिलिकः । पिपिलिकाभिः (white ants) भूमित: रजःकणरूपेण सुवर्ण बहिरानीयते । तत्तु पैप्पिलिकं सुवर्णम् । श्रीमालपुराणनामकोपोपपुराणे पारीक्षितोपाख्यानं श्रूयते । मयाद्यापि पारीक्षितोपाख्यानं न लब्धम् । परन्तु तस्मिन् परीक्षितराज्ञः जीवनोपादानायैव सुवर्णप्रयोगो भवेदिति अनुमीयते । तत्र कश्यपतक्षकयोः संवादो वर्तते । कश्यपः परीक्षितस्य तक्षकविषनिवारणेन जीवनप्रदानाय प्रस्थित आसीत् । मार्गे तक्षकस्तं परीक्षितुं समागतः । तक्षकः स्वदंशेन कमपि वृक्षं सविषं मृतप्रायं कृतवान् । महर्षिणा कश्यपः स्वप्रयोगेन पुनस्तं वृक्षं नवपल्लवितं कृतवान् । तदृष्ट्वा सः तक्षक: महर्षि यमसदनं प्रापयितुं मार्गे सुवर्णयष्टिस्वरूपं धारयित्वा पतितः । महर्षिस्तां सुन्दरां यष्टिकामादाय कण्ठे समालम्बितवान् । तक्षकेन कश्यपः गले पृष्ठतः कटिरज्ज्वोरुपरितनभागे दष्टः । कश्यपस्तु पञ्चत्वं जगाम मन्येऽहमत्र नागगरलपारदप्रयोगेण सुवर्णनिर्माणपद्धतिः निरूपिता भवेत् । सुवर्णस्य निर्माणाय श्रीमालपुराणे एकोऽन्योऽपि संदर्भः प्राप्यते वर्तितव्यमनेनैव द्विजैः श्रीमालवासिभिः । प्राप्ते कलियुगे घोरे श्रेष्ठमेतद्भविष्यति ॥ शुक्रशोणितयोर्योगात् पुरुषोऽयं द्विजोत्तमः । तारोदुम्बरयोर्योगाद्दविणो द्रवमो ऽस्तु च ।। द्रवतः पुरुषो यत्र प्रवर्तिष्यति कश्यपः । न रोगा न भयं नाधिस्तद्राष्टे वै भविष्यति ॥ ___(श्री पु. ६६ । ६१, ६२, ६३) - अत्र धत्तुरोदुम्बरयोर्योगात्सुवर्णनिर्माणपद्धतिस्तु सूचिता वर्तते । कश्यपस्य सुवर्णद्रवोपचारयुती विषापहारिणी विद्याऽप्युल्लिखिता वर्तते ऽस्मिन्नध्याये । अस्मिन्नुपाख्याने दरिद्रः कश्यपो तक्षकाद् द्रव्यं समासाद्य प्रतिनिवृत्तः निरूपितः । यतोऽहि परीक्षितो तक्षकदंशप्रभावान्नष्टः इति वर्णितम् । अन्यत्रापि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy