SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ डी. जी. वेदिया SAMBODHI सदसस्प्पतिमद्भुतप्रियमिन्द्रस्य काम्म्यम् । सनिम्मेधामयासिषः स्स्वाहा ॥ या म्मेधाम्देवगणाः पितरश्चोपासते । तथा मामद्य मेधयाग्ने मेधाविनङ्करु स्वाहा ॥ मेधाम्मे वरुणो ददातु मेधामग्निः प्रजापतिः । मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्स्वाहा ॥ इदम्मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम् । मयि देवा ददतु श्रियमुत्तमान्तस्स्यैते स्वाहा ।। अत्र देवतानामभिस्तास्ता ओषधयः सूचिताः । ताभिः सह सुवर्णसेवनेन मेधावी भवति मनुजः । एवं विद्यावर्चसोः लाभायैव सुवर्णमतीवोपकारि । सुवर्णेन रायः पुष्यन्त्येव । धनभण्डारेषु सुवर्णमेवातीव महनीयं द्रव्यं वेदकालत एव वर्तते भावितं च । यस्य पार्वे टका नास्ति स हाटके टकटकायते इति सुभाषित कारेणाप्युक्तम् - टका धर्मः टका कर्म टकैव परमं तपः ।। यस्य पार्श्वे टका नास्ति हाटके टकटकायते ॥ अतः सुवर्णं न हितरमणं भवति । हस्तात् हस्तं गच्छति । यास्केन हिरण्यम् शब्दस्तु एवं निर्वाचितः । हिरण्य कस्मात् हियत आयम्य मानमिति वा । हियते जनाज्जनमिति वा । हितरमणं भवतीति वा [हृदयरमणं भवतीति वा । हर्यते वा स्यात् प्रेप्साकर्मणः । निरु० २०१०) द्वितीये मन्त्रे तूक्तं यथा हिरण्यं रक्षांसि पिशाचाश्च न प्रभवन्ति । हिरण्यं रक्षांसि पिशाचा, कमपि न तरन्ति यतः देवानामोजः प्रथमं स्मृतम् । इन्द्रियाधिष्ठितदेवताः अत्र सूचिताः । तद्वारेण हिरण्यम् इन्द्रियाणां परमौजः शक्तिदायकं च स्मृतम् । अत्र रक्षांसि पिशाचाश्व यथा सामाजिकाः मन्यन्ते न तथा । राक्षसास्तु मांसभक्षिणः जन्तवः । अत: अथर्ववेदे भैषज्यमन्त्रेषु मांसभक्षिजन्तूनाम् अभिप्रायार्थं प्रयुज्यते 'रक्षसू शब्दः । पिशाचास्तु शोणितपानरताः सत्त्वाः । अतोऽत्र 'पिशाच' शब्देन शोणतपानरताः जन्तव एव इति पिशाचशब्देन गृह्यन्ते । अस्मिन् मंत्रे अतीव महत्त्वं सूचितं सुवर्णस्य । ये ये रोगाः मासशोणितदूषणेन जायेरन् तेषां कृते सुवर्णमेव परमौषधं स्वीकृतमत्र । आहारे चिकित्सायां वा सुवर्णमेव येन केन प्रकारेण प्रयोज्यं भवति । अमरिकादेशीयैः द्वितीय विश्वयुद्धे जापानदेशे हिरोशिमानागासिकीनगरयोरुपरि अणुबोम्बस्य महान् विस्फोट: कृतः आसीत् । तत्र अणुरजोदोषैः प्राणिनां मानवानां देहेषु विकृतिजन्यरोगाः प्रादुरभवन् । अद्यापि पीड्यन्ते केचन तद्देशीयाः । तैः तेभ्यः रोगेभ्यः विकृतिभ्यश्व आत्मानं मोचयितुं तद्देशीयैहिरण्यं सेवितं सेव्यते च । सुवर्णस्य प्रयोगेण तै सर्वे अणुरजोदोषेभ्यः शनैः शनैः मुक्ताः मुच्यन्ते च । सुवर्णमेवमायुप्रदं रोगमुक्तये च परममौषधम् । हिरण्यस्य कृते अनेकधा संशोधनस्यावकाशः विद्यते । सुवर्णालंकारधारणेनापि एतत्कृत एव हिरण्यस्य प्रभावोऽवधार्यते । अत एव सुवर्णालंकारधारणमहिमा विद्यते सर्वत्र । एवम् अलंकाराः न केवलं शोभाकराः अपि तु जन्तुप्रभावप्रतिरोधकं परमं औषधम् । हिरण्यमायुषे प्रभवति । अपां मन्त्रेषु अपां विविधाः प्रकाराः विद्यन्ते तत्र हिरण्यवर्णाः आपः प्रशस्ता: हिरण्य हर्यति दीप्यते इति । हर्म्य गतिकान्त्योः हर्यतेः कन्यत् हिरं च । (उणा. ५। ६४ इति वन्यन् । एवं गतिशीला: दीपिमन्तः आपः हिरण्यवर्णाः स्मृताः । अपि सुवर्णधातोः गुणान्तराधनहेतुरपि लक्षितः । सुवर्णं परिताप्य जले Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy