SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ यजुर्वेदे त्रीणि आयूंषि यजूंषि डी. जी. वेदिया भारतीयसनातनधर्मिणां गृहकृत्येषु यज्ञकार्येषु वा कर्मकाण्डशौण्डैः विविधेषु प्रयोगेषु पञ्चाङ्गेषु आयुष्यमन्त्रजपो विहितः । तंत्र पठ्यन्ते त्रीणि आयूंषि यजूंषि पुरोहितैः । एतानि तानि त्रीणि यजूंषि१. आयुष्यं वच॑स्य॒ ę ं रा॒यष्पोष॒मौद्भदम् । इ॒द ę हिर॑ण्यं व्वर्चस्य॒ ज्जैत्र॒याविशाद॒माम् ॥ ६ २. न तद्र्क्षा १ म्झि ना पिशाचास्तरन्ति दे॒वाना॒मोजः प्रथम॒ ६ ह्येतत् । यो ब॒र्भार्त दाक्षाद॒यण ¢ हिरण्य॒ ¢ स दे॒वेषु कृणुते दीर्घमायुः स मनु॒ष्ये॒षु कृणुते द॒ग्र्घमायुः । ३. `यदा बध्नन्दाक्षाय॒णा हिर॑ण्य ६ श॒तानीकाय सुमन॒स्य॑मानाः । तन्म॒ऽ आ ब॑ध्नामि श॒तशारदा॒युष्माञ्जरदष्टृिय॑था॒सम् ॥ ( शु. य. ३९ । ५०, ५१, ५२) तेषु मन्त्रेषु प्रथमे मन्त्रे तावत् हिरण्यम् आयुषे, वर्चसे, रायष्पोषणे जैत्राय च विहितम् । इदम् औद्भिदम् एव स्मृतम् यदाकरादेव लभ्यते यतस्तत्तु भूमावन्तर्निहितमेव । अतस्तत्तु खननादेव लभ्यते । भूमौ रजःकणेषु ताम्रादिधातवः तडित्प्रभावेण परितापात् धातुपरिवर्तनं जायते लभ्यते च सुवर्णम् । विद्युद्रूपेणाग्निना • यत्परिवर्तनं जायते धातोस्तत्तु प्रयोगशालायामपि शक्यम् । यत्र यत्र विद्युत् पुनः पुनः परिपतति तत्र तत्र ताम्रधातुः रजतरूपेण रजतं तु सुवर्णरूपेण परिवर्तते । विद्युत्तु वर्षाजननी एव । यत्र यत्र येषु येषु प्रदेशेषु वर्षाधिक्यं वर्तते विद्युद्वा पुनः पुनः निपतति तत्र तत्र भूमौ आकराद् हिरण्यं प्राप्तुं संभवति । सूर्यस्तु अग्नेरेव स्वरूपम्। स एव स्मृतः प्राणिनाम् आत्मा । सूर्य आत्मा जगतस्तस्थुषश्च । प्राणिषु स एव जीवनस्य आयुषश्च मूलकारणम् । हिरण्यं तु अग्नेरेव रेतः । यतः हिरण्यमेव आयुषः कारणम् । हिरण्यसेवनेन प्राणी दीर्घायुर्भवति । अग्नीषोमात्मकं जगत् । अग्निस्तु सोमप्रभावादेव व्यक्तो भवति । सोमाभावे अव्यक्तत्वं गच्छति । यदा सोमप्रभावो नश्यति तदा प्राणी म्रियते नश्यन्ति चोषधयः यतः ओषधयः फलपाकान्ताः । हिरण्यं तु परिपोषकतत्त्वम् आयुर्वेदे च स्मर्यते प्राणिनां रेतसि हिरण्यस्यास्तित्वम् । विज्ञानिभिरपि तत् प्रतिपादितम् । एतस्मिन् वेदमन्त्रे प्रथमत एव हिरण्यम् आयुर्वृद्धिकरं श्रुतं प्रतिपादितं च । हिरण्यं च इन्द्रियेभ्यः परमं शक्तिदायकं स्मृतम् । अतः सुवर्णवसन्तमालत्यादिषु सुवर्णमाहाररूपेण युज्यते । हिरण्यस्य प्रभावः वर्चसेऽपि प्रभवति । जातकर्मणि उपवीतसंस्कारेऽपि मेधाजननसंस्कारे मधुना सर्षिषा च युक्तं हिरण्यं प्रयुज्यते । एषः .हिरण्यप्राशनस्यैव महिमा। सुवर्णं मेधाजनकमेव । एतदेव वैदिकश्रीसूक्ते सूचितम् - Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy