________________
श्री महोपाध्यायश्रीमेघविजयगणिसन्दृब्धा
चिन्तामणिपरीक्षा
[नव्यन्यायप्रवर्तक-नैयायिकोत्तंस-श्रीमद्ऽशोपाध्यायग्रथित-तत्त्वचिन्तामणेर्परीक्षा]
प्रथमो विमर्शः
तर्कश्चिन्तामणौ कार्यः, स्मृत्वा स्याद्वादिनं जिनम् ।
विशिष्य शिष्यबोधाय, धार्यश्चात्रोपदिश्यते ॥१॥ तत्राप्यादावनुमानपरिच्छेदे "व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः तत्करणमनुमानम्" इति प्रथमतो लक्षणम् । तस्यार्थ:-'स्वसमानाधिकरणात्यन्ताभावेतर स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः' इति । बालबोधाय अत्राप्यर्थः - साधनस्य साध्ये सामानाधिकरण्यं व्याप्तिः, इत्युक्ते शब्दो नित्यः प्रमेयत्वात् इत्यनैकान्तिकहेत्वाभासेऽतिव्याप्तिस्तद्वारणाय स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगि इति साध्यविशेषणम् । एतच्च 'पर्वतोऽयं अग्निमान् धूमात्' इति प्रसिद्धानुमानेऽस्त्येव । तद् यथा - स्वशब्देन साधनं धूमः तत्समानाधिकरणास्तदाश्रयवृत्तयो घटपटस्तम्भादीनां अभावास्तेषां प्रतियोगिनो निरूपका घटादय एव, तेभ्योऽतिरिक्तं अप्रतियोगिन विरोधि समानाधिकरणं इत्यर्थः । ईदृशं साध्यं वह्निस्तेन ऐकाधिकरण्यं धूमस्यास्तीति धूमेन वनेरीहक सम्बन्धविशेषो व्याप्ति-रस्ति । एवमपि व्याप्तिलक्षणे इदं संयोगिद्रव्यत्वात् इत्यत्रानुमानप्रयोगेऽव्याप्तिः स्यात् । संयोगस्य अव्याप्यवृत्तित्वेन संयोगः, संयोगात्यन्ताभावश्च वृक्षादौ उभयोरेकाधिकरणत्वात् वृक्ष मूले पक्षिणोऽस्ति संयोगाभावः शाखायां पक्षिसंयोग इति । तेनाऽव्याप्तिवारणाय स्वसमानाधिकरणात्यन्ताभावेतर इति अत्यन्ताभावविशेषणं दत्तं तेन व्याप्तिलक्षणं नियूंढम् ।
अथ व्याप्तिविशिष्टस्य यदपि व्याप्तिविशिष्टं च तत् पक्षधर्मता ज्ञानञ्चेति रुचिदत्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org