________________
Vol XXII, 1998
THE 'BAUDDHA-SANTANA
Appendix पञ्चदशी बौद्धसन्तानद्वात्रिंशिका । नाहकृतस्य निर्वाण न सेत्स्यत्यनहकृत । न चाविद्या विवेकाय न विद्या भवगामिनी ॥१॥ अन्योऽन्यविषयान् पश्यन् पुद्गलस्कन्धशून्यता । न जानाति शमैकार्था बुद्धाना धर्मदेशना• ॥२॥ सख्यादिभेदादन्यत्व भवाच्चान्योऽन्यसङ्कर. । स्कन्धपुद्गलयोर्यस्मात् स्कन्धमात्रागत पुमान् ॥३॥ सेनावनवदेकान्तबुद्धेः प्रज्ञप्तिसौष्ठवात् । कीलवत् क्रियते मिथ्या मानकीला प्रवृत्तये ॥४॥ ममत्वाभिगमात् सत्त्वस्तच्च्युतो भ्रष्टराजवत् । भारहारादियोगास्तु व्याससंग्रहणाङ्गवत् ॥५॥ अवक्तव्यमसद्भावात् प्रश्नार्थस्य खपुष्पवत् । संतान भावनार्थं वा सरित्प्रातप्रदीपवत् ॥६॥ महाभूतोच्छ्यो रूपं विज्ञान विषयो नय । देवनाट्यपृथग्भावो नृजात्यादिविकल्पवत् ॥७॥ विपर्यासात्मक मोहसङ्गात् तृष्णा स्मृतेर्मनः । सकल्पश्चैतनाकर्म चेतयित्वोपचारत ॥८॥ चक्षुरूपादिसस्कारसमुत्थ सर्वजातिषु । विज्ञानमिव ज्ञातीना नानात्वमिति जातितः ॥९॥ चित्तवद् रूपकार्यस्य वैलक्षण्य क्षणे क्षणे । तद्धि जात्यन्तर तुल्य न बाध्यत्पुपपत्तित ॥१०॥ सत्त्वोपचारौ व्युच्छिन्नौ स्कन्धाना पश्चकल्पवत् । शून्यता वा प्रतिष्ठत्वादेतदेव प्रपञ्चितम् ॥११॥ स्कन्धप्रकार पश्यन्तो जगत्पुष्योपकारवत् । किमस्तीत्युपगच्छेयु किमेव तु ममेति वा ॥१२॥ बाह्यमायतन नात्मा यथा नेत्रादयस्तथा । तद्विकल्पगतिश्चित्तमन कस्यात्र किं यथा ॥१३॥ हेतुप्रत्ययवैचित्र्यात् तानेवमिति भक्तय. । कथ हि संप्रधायेंत भावो भावविशेषत ॥१४॥ संमोहात् स्मरणात् तत्त्वकलाभावान्न कर्मणः । क्षणिकत्वादिशुद्धेश्च निर्वाणाच्च प्रदीपवत् ॥१५॥