________________
18
MA DHAKY
SAMBODHI
निर्वाणं सर्वधर्माणामविकल्पं क्षणे क्षणे । हेतुप्रत्ययभेदात् तु तदन्त इव लक्ष्यते ॥१६॥ ससारे सति निर्वाणं क्षणिकस्य गतिः कुतः । जन्मवत् तेन चित्तस्य निर्माणमपि संस्कृतम् ॥१७॥ यत् सस्कृतमनित्यं तद् भनादन्योऽन्यसंस्कृतम् । निर्वाणमनसां यस्माद् भुक्तविप्रतिषेधनात् ॥१८॥ धर्मवद् विषयेभ्योऽपि यदा विज्ञानसभवः । संस्कारेभ्यस्तदा जन्म किं तस्य कुरुते क्षमा ॥१९॥ न पूर्वा न परा कोटि विद्यते धाक्फलं मते । पूर्वविप्रतिषेधस्तु हेतुप्रत्ययसम्भवात् ॥२०॥ अहेतुप्रत्ययनय पूर्वापरसमाभवम् । विज्ञान तत्समुत्थं का संव्यवस्येद् विचक्षण ॥२१॥ दर्पणस्थमिव प्रज्ञामुखबिम्बमतन्ययम् । तत्समुत्य च मन्यन्ते तद्वत् प्रत्ययजन्मनः ॥२२ ॥ न सामग्रीस्वभावोऽयमतो नाज्ञानभेदतः । स्वप्नोपलब्धस्मरणं निवृत्तिश्च न नेत्यपि ॥२३॥ न चानिष्टप्रयोगो नः कुशलप्रतिपत्तिवत् । मन्यमानो हि दोषं वा गुणं वा परिकल्पयेत् ॥२४॥ पटहध्वनिवोकः कल्पनामनुवर्तते । यत. स्वभावो भावो वा तस्य वक्तु न युज्यते ॥२५॥ न चोपदेशवैफल्य स्पविज्ञानजन्मवत् । दुःखमुत्पद्यते तस्य स्वार्थाहानमयुक्तिवत् ॥२६॥ न चास्यागन्तुसंक्लेशः शुद्धिर्षा भक्तयस्विमाः । स्मृतिसनसमा किन्तु तेजस्यरणिवृत्तिवत् ॥२७॥ चित्तचारवशात् सङ्ग स्मृतिवन्न विसयते । सस्कारायतनापेक्ष निरोधापत्त्यनन्तरम् ॥२८॥ अकुरव्यक्तिनिष्पत्तिश्चेतः सत्त्वस्य तत् कथम् । अविद्या तृष्णयोर्यद्वन्न नानात्वं न चैकता ॥२९॥ समविज्ञानयोस्तद्वद् वेधे कान्तमतः शिवम् । श्रोतः प्राप्त्यादिरस्यास्तु विकल्पोऽरणिवहिवत् ॥३०॥ एकचित्तेऽपि वा कृत्स्नदुःखज्ञानोपपत्तितः । ग्राममोहक्षमोदर्क शासनप्रणयो मुनेः ॥३१॥